रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥ ७.९८.१ ॥
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ ७.९८.२ ॥
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ७.९८.३ ॥
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ७.९८.४ ॥
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ७.९८.५ ॥
वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ७.९८.६ ॥
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७.९८.७ ॥
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ७.९८.८ ॥
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ ७.९८.९ ॥
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ ७.९८.१० ॥
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ७.९८.११ ॥
राम राम न सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ ७.९८.१२ ॥
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ ७.९८.१३ ॥
सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ ७.९८.१४ ॥
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥ ७.९८.१५ ॥
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥ ७.९८.१६ ॥
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ ७.९८.१७ ॥
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ॥ ७.९८.१८ ॥
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ ७.९८.१९ ॥
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ ७.९८.२० ॥
उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ ७.९८.२१ ॥
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥ ७.९८.२२ ॥
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ ७.९८.२३ ॥
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ ७.९८.२४ ॥
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ ७.९८.२५ ॥
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥ ७.९८.२६ ॥
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ ७.९८.२७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ॥ ९८ ॥
<< 97. सप्तनवतितमः सर्गः 99. एकोनशततमः सर्गः >>