वाल्मीकि रामायणे उत्तरकाण्डम् - पञ्चत्रिंशः सर्गः

अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ॥ ७.३५.१ ॥

अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ ७.३५.२ ॥

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ७.३५.३ ॥

दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ७.३५.४ ॥

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ७.३५.५ ॥

सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ॥ ७.३५.६ ॥

भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७.३५.७ ॥

न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ७.३५.८ ॥

एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ७.३५.९ ॥

हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ ७.३५.१० ॥

किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ७.३५.११ ॥

नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ ७.३५.१२ ॥

एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ॥ ७.३५.१३ ॥

राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ ७.३५.१४ ॥

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ ७.३५.१५ ॥

अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ ७.३५.१६ ॥

बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ॥ ७.३५.१७ ॥

यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ॥ ७.३५.१८ ॥

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ ७.३५.१९ ॥

तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ ७.३५.२० ॥

शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ ७.३५.२१ ॥

एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ ७.३५.२२ ॥

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ ७.३५.२३ ॥

बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ॥ ७.३५.२४ ॥

एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ ७.३५.२५ ॥

नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ॥ ७.३५.२६ ॥

यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ ७.३५.२७ ॥

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ ७.३५.२८ ॥

बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ ७.३५.२९ ॥

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ७.३५.३० ॥

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ७.३५.३१ ॥

अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ७.३५.३२ ॥

स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ७.३५.३३ ॥

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ७.३५.३४ ॥

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ७.३५.३५ ॥

स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ ७.३५.३६ ॥

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ७.३५.३७ ॥

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ७.३५.३८ ॥

अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ ७.३५.३९ ॥

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ७.३५.४० ॥

उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ ७.३५.४१ ॥

इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥ ७.३५.४२ ॥

राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ७.३५.४३ ॥

ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ७.३५.४४ ॥

तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ७.३५.४५ ॥

एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ७.३५.४६ ॥

ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ७.३५.४७ ॥

तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ७.३५.४८ ॥

प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ७.३५.४९ ॥

विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ७.३५.५० ॥

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ७.३५.५१ ॥

निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ॥ ७.३५.५२ ॥

ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ७.३५.५३ ॥

ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ७.३५.५४ ॥

त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ॥ ७.३५.५५ ॥

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ ७.३५.५६ ॥

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ ७.३५.५७ ॥

यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ७.३५.५८ ॥

पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ॥ ७.३५.५९ ॥

अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ॥ ७.३५.६० ॥

वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ ७.३५.६१ ॥

अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ७.३५.६२ ॥

तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ७.३५.६३ ॥

ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ७.३५.६४ ॥

ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ७.३५.६५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पंचत्रिंशः सर्गः ॥ ३५ ॥

<< 34. चतुस्त्रिंशः सर्गः 36. षट्त्रिंशः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः