ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ ७.४६.१ ॥
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ ७.४६.२ ॥
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥ ७.४६.३ ॥
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ७.४६.४ ॥
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ७.४६.५ ॥
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ७.४६.६ ॥
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७.४६.७ ॥
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥ ७.४६.८ ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ७.४६.९ ॥
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ ७.४६.१० ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ७.४६.११ ॥
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ ७.४६.१२ ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ ७.४६.१३ ॥
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ ७.४६.१४ ॥
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ ७.४६.१५ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ ७.४६.१६ ॥
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ ७.४६.१७ ॥
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ ७.४६.१८ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ ७.४६.१९ ॥
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ ७.४६.२० ॥
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ ७.४६.२१ ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ ७.४६.२२ ॥
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ ७.४६.२३ ॥
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥ ७.४६.२४ ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ ७.४६.२५ ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ ७.४६.२६ ॥
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ ७.४६.२७ ॥
ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ ७.४६.२८ ॥
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥ ७.४६.२९ ॥
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ७.४६.३० ॥
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥ ७.४६.३१ ॥
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ७.४६.३२ ॥
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ॥ ७.४६.३३ ॥
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥ ७.४६.३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
<< 45. पञ्चचत्वारिंशः सर्गः 47. सप्तचत्वारिंशः सर्गः >>46. षट्चत्वारिंशः सर्गः