वाल्मीकि रामायणे उत्तरकाण्डम् - एकविंशः सर्गः

एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ ७.२१.१ ॥

अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ ७.२१.२ ॥

स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ७.२१.३ ॥

कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ७.२१.४ ॥

अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ७.२१.५ ॥

एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ७.२१.६ ॥

एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥ ७.२१.७ ॥

एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ७.२१.८ ॥

तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ॥ ७.२१.९ ॥

सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ ७.२१.१० ॥

अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ७.२१.११ ॥

ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ ७.२१.१२ ॥

कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ ७.२१.१३ ॥

क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ ७.२१.१४ ॥

वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ ७.२१.१५ ॥

रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ ७.२१.१६ ॥

शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥ ७.२१.१७ ॥

ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ ७.२१.१८ ॥

गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ ७.२१.१९ ॥

सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥ ७.२१.२० ॥

धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ ७.२१.२१ ॥

ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ॥ ७.२१.२२ ॥

प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ ७.२१.२३ ॥

प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ ७.२१.२४ ॥

ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥ ७.२१.२५ ॥

ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ ७.२१.२६ ॥

तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ ७.२१.२७ ॥

देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ ७.२१.२८ ॥

असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ॥ ७.२१.२९ ॥

ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ॥ ७.२१.३० ॥

ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ ७.२१.३१ ॥

अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ७.२१.३२ ॥

अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ७.२१.३३ ॥

ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ७.२१.३४ ॥

स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ ७.२१.३५ ॥

तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ७.२१.३६ ॥

तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ७.२१.३७ ॥

परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ७.२१.३८ ॥

विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ७.२१.३९ ॥

ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ ७.२१.४० ॥

ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥ ७.२१.४१ ॥

आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥ ७.२१.४२ ॥

तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ७.२१.४३ ॥

ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥ ७.२१.४४ ॥

ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ७.२१.४५ ॥

ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ७.२१.४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥

<< 20. विंशः सर्गः 22. द्वाविंशः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः