प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ ७.१.१ ॥
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ ७.१.२ ॥
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ७.१.३ ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ७.१.४ ॥
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ॥ ७.१.५ ॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ७.१.६ ॥
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ७.१.७ ॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७.१.८ ॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ७.१.९ ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥ ७.१.१० ॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥ ७.१.११ ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥ ७.१.१२ ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥ ७.१.१३ ॥
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ ७.१.१४ ॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ ७.१.१५ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ ७.१.१६ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ ७.१.१७ ॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ ७.१.१८ ॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ ७.१.१९ ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥ ७.१.२० ॥
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ ७.१.२१ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ ७.१.२२ ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥ ७.१.२३ ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ ७.१.२४ ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ ७.१.२५ ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ ७.१.२६ ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि ॥ ७.१.२७ ॥
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ ७.१.२८ ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ ७.१.२९ ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ ७.१.३० ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ७.१.३१ ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥ ७.१.३२ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥ दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ७.१.३३ ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ७.१.३४ ॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ७.१.३५ ॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥ ७.१.३६ ॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ७.१.३७ ॥
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते ॥ ७.१.३८ ॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ७.१.३९ ॥
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥ ७.१.४० ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ७.१.४१ ॥
<< 0. 0 सर्गः 2. द्वितीयः सर्गः >>1. प्रथमः सर्गः