वाल्मीकि रामायणे उत्तरकाण्डम् - षडुत्तरशततमः सर्गः

अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ ७.१०६.१ ॥

न संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ ७.१०६.२ ॥

जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ७.१०६.३ ॥

यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ७.१०६.४ ॥

लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ७.१०६.५ ॥

अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ७.१०६.६ ॥

तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७.१०६.७ ॥

दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ७.१०६.८ ॥

त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ॥ ७.१०६.९ ॥

ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ ७.१०६.१० ॥

स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ७.१०६.११ ॥

तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ ७.१०६.१२ ॥

विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥ ७.१०६.१३ ॥

रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ ७.१०६.१४ ॥

स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ ७.१०६.१५ ॥

अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ ७.१०६.१६ ॥

अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ ७.१०६.१७ ॥

ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ॥ ७.१०६.१८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥

<< 105. पञ्चोत्तरशततमः सर्गः 107. सप्तोत्तरशततमः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः