रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ ७.५६.१ ॥
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ ७.५६.२ ॥
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ७.५६.३ ॥
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ७.५६.४ ॥
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ७.५६.५ ॥
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः ॥ ७.५६.६ ॥
भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ॥ ७.५६.७ ॥
सर्वेषां देहहीनानां महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो । देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ७.५६.८ ॥
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः । मित्रावरुणजं तेज प्रविश त्वं महायशः ॥ ७.५६.९ ॥
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ ७.५६.१० ॥
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् । कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ७.५६.११ ॥
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ ७.५६.१२ ॥
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ॥ ७.५६.१३ ॥
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये । आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ ७.५६.१४ ॥
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् । वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ ७.५६.१५ ॥
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ ७.५६.१६ ॥
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः । इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ॥ ७.५६.१७ ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि । कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥ ७.५६.१८ ॥
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ ७.५६.१९ ॥
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् । भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ ७.५६.२० ॥
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ ७.५६.२१ ॥
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता । तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ॥ ७.५६.२२ ॥
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ॥ ७.५६.२३ ॥
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ॥ ७.५६.२४ ॥
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः । तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ ७.५६.२५ ॥
ततः सा शापदोषेण पुरूरवसमभ्यगात् । प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ॥ ७.५६.२६ ॥
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः । नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ ७.५६.२७ ॥
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे । शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ ७.५६.२८ ॥
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥ ७.५६.२९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
<< 55. पञ्चपञ्चाशः सर्गः 57. सप्तपञ्चाशः सर्गः >>56. षट्पञ्चाशः सर्गः