वाल्मीकि रामायणे उत्तरकाण्डम् - द्विपञ्चाशः सर्गः

तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ ७.५२.१ ॥

ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥ ७.५२.२ ॥

सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ७.५२.३ ॥

तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ॥ ७.५२.४ ॥

राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ७.५२.५ ॥

स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ७.५२.६ ॥

जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७.५२.७ ॥

आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ७.५२.८ ॥

तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ७.५२.९ ॥

मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥ ७.५२.१० ॥

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ७.५२.११ ॥

तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ७.५२.१२ ॥

शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥ ७.५२.१३ ॥

नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ॥ ७.५२.१४ ॥

यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥ ७.५२.१५ ॥

स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥ ७.५२.१६ ॥

एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥ ७.५२.१७ ॥

एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ॥ ७.५२.१८ ॥

निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥ ७.५२.१९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

<< 51. एकपञ्चाशः सर्गः 53. त्रिपञ्चाशः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः