अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवद्वनमासाद्य परिचक्राम रावणः ॥ ७.१७.१ ॥
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ॥ ७.१७.२ ॥
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ७.१७.३ ॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ॥ ७.१७.४ ॥
रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ ७.१७.५ ॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ ७.१७.६ ॥
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥ ७.१७.७ ॥
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः । बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ७.१७.८ ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः । सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ ७.१७.९ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः । ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ ७.१७.१० ॥
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ । कारणं तद्वदिष्यामि निशाचर निशामय ॥ ७.१७.११ ॥
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ ७.१७.१२ ॥
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ॥ ७.१७.१३ ॥
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ ७.१७.१४ ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ ७.१७.१५ ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे ॥ ७.१७.१६ ॥
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ ७.१७.१७ ॥
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥ ७.१७.१८ ॥
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ ७.१७.१९ ॥
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ ७.१७.२० ॥
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ॥ ७.१७.२१ ॥
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ ७.१७.२२ ॥
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥ ७.१७.२३ ॥
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन च बलेन च ॥
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ॥ ७.१७.२४ ॥
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ॥ ७.१७.२५ ॥
वै भोगेन च बलेन च ॥ मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ॥ ७.१७.२६ ॥
एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ ७.१७.२७ ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ॥ ७.१७.२८ ॥
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ ७.१७.२९ ॥
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते । रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ ७.१७.३० ॥
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ ७.१७.३१ ॥
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ ७.१७.३२ ॥
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ ७.१७.३३ ॥
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ ७.१७.३४ ॥
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ७.१७.३५ ॥
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ७.१७.३६ ॥
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ ७.१७.३७ ॥
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ॥ ७.१७.३८ ॥
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ७.१७.३९ ॥
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ॥ ७.१७.४० ॥
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ७.१७.४१ ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ ७.१७.४२ ॥
उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ७.१७.४३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥
<< 16. षोडशः सर्गः 18. अष्टादशः सर्गः >>17. सप्तदशः सर्गः