स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ॥ ७.२५.१ ॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ ७.२५.२ ॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ॥ ७.२५.३ ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ७.२५.४ ॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ ७.२५.५ ॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ७.२५.६ ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ॥ ७.२५.७ ॥
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ॥ ७.२५.८ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ७.२५.९ ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ॥ ७.२५.१० ॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ॥ ७.२५.११ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ॥ ७.२५.१२ ॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ॥ ७.२५.१३ ॥
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ ७.२५.१४ ॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥ ७.२५.१५ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ ७.२५.१६ ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ॥ ७.२५.१७ ॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ॥ ७.२५.१८ ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ ७.२५.१९ ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ॥ ७.२५.२० ॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ ७.२५.२१ ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ ७.२५.२२ ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ॥ ७.२५.२३ ॥
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ॥ ७.२५.२४ ॥
सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ ७.२५.२५ ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ॥ ७.२५.२६ ॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ ७.२५.२७ ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ ७.२५.२८ ॥
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ॥ ७.२५.२९ ॥
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ॥ ७.२५.३० ॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ ७.२५.३१ ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ ७.२५.३२ ॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ७.२५.३३ ॥
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ७.२५.३४ ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ७.२५.३५ ॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ॥ ७.२५.३६ ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ७.२५.३७ ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥ ७.२५.३८ ॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥ ७.२५.३९ ॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥ ७.२५.४० ॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ ७.२५.४१ ॥
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ७.२५.४२ ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ ७.२५.४३ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ ७.२५.४४ ॥
सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ॥ ७.२५.४५ ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ॥ ७.२५.४६ ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ७.२५.४७ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ ७.२५.४८ ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ७.२५.४९ ॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ॥ ७.२५.५० ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ७.२५.५१ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ ७.२५.५२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥
<< 24. चतुर्विंशः सर्गः 26. षड्विंशः सर्गः >>25. पञ्चविंशः सर्गः