लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ ७.५३.१ ॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ॥ ७.५३.२ ॥
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ७.५३.३ ॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ७.५३.४ ॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ ७.५३.५ ॥
पौरकार्याणि यो राजा न करोति दिने दिने । संवृते नरके घोरे पतितो नात्र संशयः ॥ ७.५३.६ ॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥ ७.५३.७ ॥
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ७.५३.८ ॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ । ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥ ७.५३.९ ॥
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च । नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ ७.५३.१० ॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ७.५३.११ ॥
अथ तां नामधेयेन स्वकेनोवाच स द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥ ७.५३.१२ ॥
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ ७.५३.१३ ॥
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ ७.५३.१४ ॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ ७.५३.१५ ॥
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ ७.५३.१६ ॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥ क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥ ७.५३.१७ ॥
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ ७.५३.१८ ॥
बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥ ७.५३.१९ ॥
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥ ७.५३.२० ॥
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ ७.५३.२१ ॥
भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ ७.५३.२२ ॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ ७.५३.२३ ॥
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ ७.५३.२४ ॥
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ ७.५३.२५ ॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ ७.५३.२६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
<< 52. द्विपञ्चाशः सर्गः 54. चतुःपञ्चाशः सर्गः >>53. त्रिपञ्चाशः सर्गः