सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ॥ ७.२८.१ ॥
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ ७.२८.२ ॥
सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ७.२८.३ ॥
ततः प्रविशतस्तस्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ७.२८.४ ॥
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे । सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ॥ ७.२८.५ ॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ७.२८.६ ॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ॥ ७.२८.७ ॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ७.२८.८ ॥
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ७.२८.९ ॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान्कनकभूषणान् ॥ ७.२८.१० ॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ७.२८.११ ॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ ७.२८.१२ ॥
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः । पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ ७.२८.१३ ॥
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ ७.२८.१४ ॥
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ ७.२८.१५ ॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ ७.२८.१६ ॥
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ ७.२८.१७ ॥
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ ७.२८.१८ ॥
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ॥ ७.२८.१९ ॥
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ ७.२८.२० ॥
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ ७.२८.२१ ॥
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ ७.२८.२२ ॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ॥ ७.२८.२३ ॥
स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ॥ ७.२८.२४ ॥
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ ७.२८.२५ ॥
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ ७.२८.२६ ॥
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ ७.२८.२७ ॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ ७.२८.२८ ॥
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ ७.२८.२९ ॥
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ७.२८.३० ॥
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ॥ ७.२८.३१ ॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ७.२८.३२ ॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ७.२८.३३ ॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ७.२८.३४ ॥
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ७.२८.३५ ॥
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ७.२८.३६ ॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ ७.२८.३७ ॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ७.२८.३८ ॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ७.२८.३९ ॥
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ ७.२८.४० ॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ७.२८.४१ ॥
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ७.२८.४२ ॥
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ७.२८.४३ ॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ७.२८.४४ ॥
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ ७.२८.४५ ॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ ७.२८.४६ ॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ॥ ७.२८.४७ ॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ७.२८.४८ ॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ ७.२८.४९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाविंशः सर्गः ॥ २८ ॥
<< 27. सप्तविंशः सर्गः 29. एकोनत्रिंशः सर्गः >>28. अष्टाविंशः सर्गः