वाल्मीकि रामायणे उत्तरकाण्डम् - दशमः सर्गः

अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ ७.१०.१ ॥

अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ ७.१०.२ ॥

कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ ७.१०.३ ॥

मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ७.१०.४ ॥

एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ७.१०.५ ॥

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ७.१०.६ ॥

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७.१०.७ ॥

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ७.१०.८ ॥

एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ७.१०.९ ॥

दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ ७.१०.१० ॥

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ७.१०.११ ॥

अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ ७.१०.१२ ॥

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ॥ ७.१०.१३ ॥

शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ ७.१०.१४ ॥

अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ ७.१०.१५ ॥

भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ ७.१०.१६ ॥

एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ ७.१०.१७ ॥

एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ ७.१०.१८ ॥

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ ७.१०.१९ ॥

नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ ७.१०.२० ॥

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ॥ ७.१०.२१ ॥

भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ ७.१०.२२ ॥

शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ ७.१०.२३ ॥

पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ ७.१०.२४ ॥

छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥ ७.१०.२५ ॥

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥ ७.१०.२६ ॥

एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ ७.१०.२७ ॥

विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥ ७.१०.२८ ॥

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ ७.१०.२९ ॥

भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ ७.१०.३० ॥

परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ७.१०.३१ ॥

या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ ७.१०.३२ ॥

एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥ ७.१०.३३ ॥

पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ ७.१०.३४ ॥

यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ७.१०.३५ ॥

इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥ ७.१०.३६ ॥

न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ७.१०.३७ ॥

नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ७.१०.३८ ॥

अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ७.१०.३९ ॥

वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥ ७.१०.४० ॥

एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ॥ ७.१०.४१ ॥

प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ ७.१०.४२ ॥

प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ७.१०.४३ ॥

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ७.१०.४४ ॥

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ७.१०.४५ ॥

एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ७.१०.४६ ॥

ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥ ७.१०.४७ ॥

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ७.१०.४८ ॥

अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ७.१०.४९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ॥ १० ॥

<< 9. नवमः सर्गः 11. एकादशः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः