वाल्मीकि रामायणे उत्तरकाण्डम् - सप्तसप्ततितमः सर्गः

पुरा त्रेतायुगे राम बभूव बहुविस्तरम् । समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥ ७.७७.१ ॥

तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ ७.७७.२ ॥

तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ७.७७.३ ॥

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ७.७७.४ ॥

पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ७.७७.५ ॥

अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ७.७७.६ ॥

पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७.७७.७ ॥

प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ७.७७.८ ॥

पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ७.७७.९ ॥

तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव । उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥ ७.७७.१० ॥

अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ७.७७.११ ॥

अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ ७.७७.१२ ॥

गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ॥ ७.७७.१३ ॥

अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ ७.७७.१४ ॥

ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ ७.७७.१५ ॥

तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ ७.७७.१६ ॥

उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ ७.७७.१७ ॥

तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ ७.७७.१८ ॥

को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ ७.७७.१९ ॥

कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ ७.७७.२० ॥

नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ ७.७७.२१ ॥

इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ ७.७७.२२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

<< 76. षट्सप्ततितमः सर्गः 78. अष्टसप्ततितमः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः