वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ ७.९३.१ ॥
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥ ७.९३.२ ॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ७.९३.३ ॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥ ७.९३.४ ॥
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ७.९३.५ ॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ७.९३.६ ॥
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७.९३.७ ॥
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥ ७.९३.८ ॥
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ७.९३.९ ॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ ७.९३.१० ॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ७.९३.११ ॥
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥ ७.९३.१२ ॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥ ७.९३.१३ ॥
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥ ७.९३.१४ ॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ॥ ७.९३.१५ ॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ ७.९३.१६ ॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ ७.९३.१७ ॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ ७.९३.१८ ॥
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ॥ ७.९३.१९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
<< 92. द्विनवतितमः सर्गः 94. चतुर्नवतितमः सर्गः >>93. त्रिनवतितमः सर्गः