एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ ७.३८.१ ॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.२ ॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ७.३८.३ ॥
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥ ७.३८.४ ॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ॥ ७.३८.५ ॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ॥ ७.३८.६ ॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७.३८.७ ॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ७.३८.८ ॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.९ ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ ७.३८.१० ॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ ७.३८.११ ॥
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ॥ ७.३८.१२ ॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ ७.३८.१३ ॥
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ ७.३८.१४ ॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ ७.३८.१५ ॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ ७.३८.१६ ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ ७.३८.१७ ॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ ७.३८.१८ ॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ ७.३८.१९ ॥
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ ७.३८.२० ॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ ७.३८.२१ ॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ ७.३८.२२ ॥
युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ ७.३८.२३ ॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ ७.३८.२४ ॥
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ ७.३८.२५ ॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ ७.३८.२६ ॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ॥ ७.३८.२७ ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ॥ ७.३८.२८ ॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥ ७.३८.२९ ॥
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ ७.३८.३० ॥
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ७.३८.३१ ॥
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ७.३८.३२ ॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ७.३८.३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३८ ॥
<< 37. सप्तत्रिंशः सर्गः 39. एकोनचत्वारिंशः सर्गः >>38. अष्टात्रिंशः सर्गः