प्अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ ७.१९.१ ॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ ७.१९.२ ॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ७.१९.३ ॥
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ७.१९.४ ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ७.१९.५ ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥ ७.१९.६ ॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥ ७.१९.७ ॥
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७.१९.८ ॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ७.१९.९ ॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ७.१९.१० ॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ७.१९.११ ॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥ ७.१९.१२ ॥
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥ ७.१९.१३ ॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ ७.१९.१४ ॥
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥ ७.१९.१५ ॥
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ ७.१९.१६ ॥
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ॥ ७.१९.१७ ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ ७.१९.१८ ॥
अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ ७.१९.१९ ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ ७.१९.२० ॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ ७.१९.२१ ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ ७.१९.२२ ॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ ७.१९.२३ ॥
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥ ७.१९.२४ ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ ७.१९.२५ ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ ७.१९.२६ ॥
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ॥ ७.१९.२७ ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥ ७.१९.२८ ॥
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ ७.१९.३० ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१९.३१ ॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ॥ ७.१९.३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥
<< 18. अष्टादशः सर्गः 20. विंशः सर्गः >>19. एकोनविंशः सर्गः