॥ अनन्तकार्यप्ररोचनम् ॥
एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः ।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १ ॥
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ॥ २ ॥
[* आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः । *]
तपसा धारयेल्लोकान्क्रुद्धो वा निर्दहेदपि ।
सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥ ३ ॥
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ॥ ४ ॥
जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता ।
जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाहरीन् ॥ ५ ॥
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ ६ ॥
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ।
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ ७ ॥
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ॥ ८ ॥
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् ।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ ९ ॥
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि सम्युगे ॥ १० ॥
तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ ११ ॥
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् ॥ १२ ॥
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ १३ ॥
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ १४ ॥
पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मन्दरोऽपि विशीर्येत किं पुनर्युधि राक्षसाः ॥ १५ ॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ १६ ॥
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ १७ ॥
पितामहवरोत्सेकात्परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १८ ॥
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ १९ ॥
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ २० ॥
एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ २१ ॥
मयैव निहता लङ्का दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ २२ ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २३ ॥
अहं कोसलराजस्य दासः पवनसम्भवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २४ ॥
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ॥ २५ ॥
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ॥ २६ ॥
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ २७ ॥
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ २८ ॥
तदेकवासःसंवीता रजोध्वस्ता तथैव च ।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥ २९ ॥
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ ३० ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ ३१ ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता ॥ ३२ ॥
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ ३३ ॥
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ॥ ३४ ॥
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ॥ ३५ ॥
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।
एवमास्ते महाभागा सीता शोकपरायणा ।
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
<< 58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम् 60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः >>2. द्वितीयः सर्गः – निशागमप्रतीक्षा
3. तृतीयः सर्गः – लङ्काधिदेवताविजयः
4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः
6. षष्ठः सर्गः – रावणगृहावेक्षणम्
7. सप्तमः सर्गः – पुष्पकदर्शनम्
8. अष्टमः सर्गः – पुष्पकानुवर्णनम्
9. नवमः सर्गः – सङ्कुलान्तःपुरम्
10. दशमः सर्गः – मन्दोदरीदर्शनम्
11. एकादशः सर्गः – पानभूमिविचयः
12. द्वादशः सर्गः – हनूमद्विषादः
13. त्रयोदशः सर्गः – हनूमन्निर्वेदः
14. चतुर्दशः सर्गः – अशोकवनिकाविचयः
15. पञ्चदशः सर्गः – सीतोपलम्भः
16. षोडशः सर्गः – हनूमत्परीतापः
17. सप्तदशः सर्गः – राक्षसीपरिवारः
18. अष्टादशः सर्गः – रावणागमनम्
19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः
20. विंशः सर्गः – प्रणयप्रार्थना
21. एकविंशः सर्गः – रावणतृणीकरणम्
22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्
23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्
24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्
25. पञ्चविंशः सर्गः – सीतानिर्वेदः
26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्
27. सप्तविंशः सर्गः – त्रिजटास्वप्नः
28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः
29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि
30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्
31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः
32. द्वात्रिंशः सर्गः – सीतावितर्कः
33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः
34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्
35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्
36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्
37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्
38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्
39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः
40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्
41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्
42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्
43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः
44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः
45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः
46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः
47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः
48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः
49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्
50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः
51. एकपञ्चाशः सर्गः – हनूमदुपदेशः
52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्
53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्
54. चतुःपञ्चाशः सर्गः – लङ्कादाहः
55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः
56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्
57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्
59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्
60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः
61. एकषष्टितमः सर्गः – मधुवनप्रवेशः
62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः
63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः
64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्
65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्
66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः