वाल्मीकि रामायणे सुन्दरकाण्ड - अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

॥ वायसवृत्तान्तकथनम् ॥

ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः ।
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ३ ॥

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि सं‍स्पर्शमिति जानकि ॥ ४ ॥

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ६ ॥

कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७ ॥

लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ ८ ॥

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ९ ॥

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १० ॥

एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ १२ ॥

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ १३ ॥

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४ ॥

ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ १५ ॥

दारयन्स च मां काकस्तत्रैव परिलीयते ।
न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६ ॥

उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥

त्वयापहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ १८ ॥

आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।
क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ १९ ॥

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥

परिश्रमात्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ २१ ॥

स तत्र पुनरेवाथ वायसः समुपागमत् ।
ततः सुप्तप्रबुद्धां मां राघवाङ्कात्समुत्थिताम् ॥ २२ ॥ [रामस्य]

वायसः सहसागम्य विददार स्तनान्तरे । [विरराद]
पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ २३ ॥

ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ॥ २४ ॥

स मया बोधितः श्रीमान्सुखसुप्तः परन्तपः ।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ॥ २५ ॥

आशीविष इव क्रुद्धः श्वसन्वाक्यमभाषत ।
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ॥ २६ ॥

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ॥ २७ ॥

नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।
पुत्रः किल स शक्रस्य वायसः पततां वरः ॥ २८ ॥

धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ॥ २९ ॥

वायसे कृतवान्क्रूरां मतिं मतिमतां वरः ।
स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत् ॥ ३० ॥

स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥ ३१ ॥

ततस्तं वायसं दर्भः सोम्बरेनुजगाम तम् ।
अनुसृप्तस्तदा काको जगाम विविधां गतिम् ॥ ३२ ॥

त्राणकाम इमं लोकं सर्वं वै विचचार ह । [लोक]
स पित्रा च परित्यक्तः सुरैश्च स महर्षिभिः ॥ ३३ ॥

त्रीँल्लोकान्सम्परिक्रम्य तमेव शरणं गतः ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ ३४ ॥

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।
न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥ ३५ ॥

परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ३६ ॥

हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ।
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ ३७ ॥

दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ॥ ३८ ॥

विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ॥ ३९ ॥

कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ॥ ४० ॥

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ४१ ॥

जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् ॥ ४२ ॥

भर्तारं ससमुद्राया धरण्या वासवोपमम् ।
एवमस्त्रविदां श्रेष्ठः सत्यवान्बलवानपि ॥ ४३ ॥

किमर्थमस्त्रं रक्षस्सु न योजयसि राघवः ।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ ४४ ॥

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ॥ ४५ ॥

किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ॥ ४६ ॥

कस्य हेतोर्न मां वीरः परित्राति महाबलः ।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ ४७ ॥

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।
ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः ॥ ४८ ॥

समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ।
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ ४९ ॥

अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ।
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ॥ ५० ॥

रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।
कथं‍चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ ५१ ॥

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ ५२ ॥

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।
हत्वा च समरे क्रूरं रावणं सहबान्धवम् ॥ ५३ ॥

राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ ५४ ॥

सुग्रीवो वापि तेजस्वी हरयोपि समागताः ।
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ॥ ५५ ॥

उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ ५६ ॥

तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ॥ ५७ ॥

ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।
पितरं मातरं चैव सं‍मान्याभिप्रसाद्य च ॥ ५८ ॥

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ५९ ॥

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ।
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ६० ॥

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ६१ ॥

वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ ६२ ॥

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ६३ ॥

यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ ६४ ॥

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ ६५ ॥

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ६६ ॥

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ ६७ ॥

ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ ६८ ॥

त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ॥ ६९ ॥

प्रदेयो राघवायेति सीता हनुमते ददौ ।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ॥ ७० ॥

अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ॥ ७१ ॥

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।
हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं शरीरेण तु निष्ठितः ॥ ७२ ॥

मणिवरमुपगृह्य तं महार्हं
जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूतमुक्तः
सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ ७३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥

<< 37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम् 39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः