॥ हनूमत्कृत्याकृत्यविचिन्तनम् ॥
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ १ ॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २ ॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३ ॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥ ४ ॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५ ॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ ६ ॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ ७ ॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८ ॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९ ॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १० ॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।
कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ११ ॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ १२ ॥
रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः ।
किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ १३ ॥
सीतासन्देशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ १४ ॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५ ॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६ ॥
अहं त्वतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७ ॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८ ॥
वानरस्य विशेषेण कथं स्यादभिभाषणम् ।
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ १९ ॥
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।
सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ २० ॥
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ॥ २१ ॥
जानमाना विशालाक्षी रावणं कामरूपिणम् ।
सीतया च कृते शब्दे सहसा राक्षसीगणः ॥ २२ ॥
नानाप्रहरणो घोरः समेयादन्तकोपमः ।
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः ॥ २३ ॥
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ॥ २४ ॥
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ॥ २५ ॥
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ॥ २६ ॥
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ॥ २७ ॥
आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः ।
संरुद्धस्तैः सुपरितो विधमन्रक्षसां बलम् ॥ २८ ॥
शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः ।
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ॥ २९ ॥
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥ ३० ॥
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।
उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते ॥ ३१ ॥
सागरेण परिक्षिप्ते गुप्ते वसति जानकी ।
विशस्ते वा गृहीते वा रक्षोभिर्मयि सम्युगे ॥ ३२ ॥
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।
विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ ३३ ॥
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ।
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ॥ ३४ ॥
न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः ।
असत्यानि च युद्धानि संशयो मे न रोचते ॥ ३५ ॥
कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ ३६ ॥
एष दोषो महान्हि स्यान्मम सीताभिभाषणे ।
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ ३७ ॥
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।
अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते ॥ ३८ ॥
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ॥ ३९ ॥
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ॥ ४० ॥
इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम् ।
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ॥ ४१ ॥
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ ४२ ॥
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् ।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ ४३ ॥
इति स बहुविधं महानुभावो
जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं
द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः ॥ ३० ॥
<< 29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि 31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः >>2. द्वितीयः सर्गः – निशागमप्रतीक्षा
3. तृतीयः सर्गः – लङ्काधिदेवताविजयः
4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः
6. षष्ठः सर्गः – रावणगृहावेक्षणम्
7. सप्तमः सर्गः – पुष्पकदर्शनम्
8. अष्टमः सर्गः – पुष्पकानुवर्णनम्
9. नवमः सर्गः – सङ्कुलान्तःपुरम्
10. दशमः सर्गः – मन्दोदरीदर्शनम्
11. एकादशः सर्गः – पानभूमिविचयः
12. द्वादशः सर्गः – हनूमद्विषादः
13. त्रयोदशः सर्गः – हनूमन्निर्वेदः
14. चतुर्दशः सर्गः – अशोकवनिकाविचयः
15. पञ्चदशः सर्गः – सीतोपलम्भः
16. षोडशः सर्गः – हनूमत्परीतापः
17. सप्तदशः सर्गः – राक्षसीपरिवारः
18. अष्टादशः सर्गः – रावणागमनम्
19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः
20. विंशः सर्गः – प्रणयप्रार्थना
21. एकविंशः सर्गः – रावणतृणीकरणम्
22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्
23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्
24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्
25. पञ्चविंशः सर्गः – सीतानिर्वेदः
26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्
27. सप्तविंशः सर्गः – त्रिजटास्वप्नः
28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः
29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि
30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्
31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः
32. द्वात्रिंशः सर्गः – सीतावितर्कः
33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः
34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्
35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्
36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्
37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्
38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्
39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः
40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्
41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्
42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्
43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः
44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः
45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः
46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः
47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः
48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः
49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्
50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः
51. एकपञ्चाशः सर्गः – हनूमदुपदेशः
52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्
53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्
54. चतुःपञ्चाशः सर्गः – लङ्कादाहः
55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः
56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्
57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्
59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्
60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः
61. एकषष्टितमः सर्गः – मधुवनप्रवेशः
62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः
63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः
64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्
65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्
66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः