॥ हनूमत्परीतापः ॥
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः ।
गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १ ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह ॥ २ ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ।
यदि सीताऽपि दुःखार्ता कालो हि दुरतिक्रमः ॥ ३ ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४ ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५ ॥
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् ।
जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६ ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ।
रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७ ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः ।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ९ ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः ।
दूषणश्च महातेजा रामेण विदितात्मना ॥ १० ॥
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् ।
अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम् ॥ ११ ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ।
अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ १२ ।
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३ ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ १४ ॥
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ।
सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ १५ ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६ ॥
विक्रान्तस्यार्यशीलस्य सम्युगेष्वनिवर्तिनः ।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ १७ ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।
इयं सा दयिता भार्या राक्षसीवशमागता ॥ १८ ॥
सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ।
अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ १९ ॥
सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता ।
या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ २० ॥
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ।
सहते यातनामेतामनर्थानामभागिनी ॥ २१ ॥
इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः ।
रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ।
राजा राज्यात्परिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३ ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च ।
धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४ ॥
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ।
एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५ ॥
भर्ता नाम परं नार्या भूषणं भूषणादपि ।
एषा विरहिता तेन भूषणार्हा न शोभते ॥ २६ ॥ [तु रहिता]
दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७ ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥
क्षितिक्षमा पुष्करसन्निभाक्षी
या रक्षिता राघवलक्ष्मणाभ्याम् ।
सा राक्षसीभिर्विकृतेक्षणाभिः
संरक्ष्यते सम्प्रति वृक्षमूले ॥ २९ ॥
हिमहतनलिनीव नष्टशोभा
व्यसनपरम्परयातिपीड्यमाना ।
सहचररहितेव चक्रवाकी
जनकसुता कृपणां दशां प्रपन्ना ॥ ३० ॥
अस्या हि पुष्पावनताग्रशाखाः
शोकं दृढं वै जनयन्त्यशोकाः ।
हिमव्यपायेन च मन्दरश्मि-
-रभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१ ॥
इत्येवमर्थं कपिरन्ववेक्ष्य
सीतेयमित्येव निविष्टबुद्धिः ।
संश्रित्य तस्मिन्निषसाद वृक्षे
बली हरीणामृषभस्तरस्वी ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥ १६ ॥
<< 15. पञ्चदशः सर्गः – सीतोपलम्भः 17. सप्तदशः सर्गः – राक्षसीपरिवारः >>2. द्वितीयः सर्गः – निशागमप्रतीक्षा
3. तृतीयः सर्गः – लङ्काधिदेवताविजयः
4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः
6. षष्ठः सर्गः – रावणगृहावेक्षणम्
7. सप्तमः सर्गः – पुष्पकदर्शनम्
8. अष्टमः सर्गः – पुष्पकानुवर्णनम्
9. नवमः सर्गः – सङ्कुलान्तःपुरम्
10. दशमः सर्गः – मन्दोदरीदर्शनम्
11. एकादशः सर्गः – पानभूमिविचयः
12. द्वादशः सर्गः – हनूमद्विषादः
13. त्रयोदशः सर्गः – हनूमन्निर्वेदः
14. चतुर्दशः सर्गः – अशोकवनिकाविचयः
15. पञ्चदशः सर्गः – सीतोपलम्भः
16. षोडशः सर्गः – हनूमत्परीतापः
17. सप्तदशः सर्गः – राक्षसीपरिवारः
18. अष्टादशः सर्गः – रावणागमनम्
19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः
20. विंशः सर्गः – प्रणयप्रार्थना
21. एकविंशः सर्गः – रावणतृणीकरणम्
22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्
23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्
24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्
25. पञ्चविंशः सर्गः – सीतानिर्वेदः
26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्
27. सप्तविंशः सर्गः – त्रिजटास्वप्नः
28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः
29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि
30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्
31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः
32. द्वात्रिंशः सर्गः – सीतावितर्कः
33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः
34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्
35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्
36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्
37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्
38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्
39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः
40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्
41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्
42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्
43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः
44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः
45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः
46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः
47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः
48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः
49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्
50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः
51. एकपञ्चाशः सर्गः – हनूमदुपदेशः
52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्
53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्
54. चतुःपञ्चाशः सर्गः – लङ्कादाहः
55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः
56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्
57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्
59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्
60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः
61. एकषष्टितमः सर्गः – मधुवनप्रवेशः
62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः
63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः
64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्
65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्
66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः