वाल्मीकि रामायणे सुन्दरकाण्ड - एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

॥ हनूमत्सन्देशः ॥

मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ १ ॥

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ २ ॥

स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३ ॥

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ॥ ४ ॥

तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥ ५ ॥

शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे ।
ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् ॥ ६ ॥

बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७ ॥

सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८ ॥

यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ९ ॥

जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।
तत्तथा हनुमन्वाच्यो वाचा धर्ममवाप्नुहि ॥ १० ॥

नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ ११ ॥

मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।
पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ १२ ॥

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १३ ॥

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ १४ ॥

न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥ १५ ॥

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६ ॥

स हि सागरपर्यन्तां महीं शासितुमीहते ।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ १७ ॥

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।
जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ॥ १८ ॥

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ १९ ॥

यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ २० ॥

मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ २१ ॥

गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ २२ ॥

तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥ २३ ॥

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ २४ ॥

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ २५ ॥

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ २६ ॥

तदस्मिन्कार्यनिर्योगे वीरैवं दुरितक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ २७ ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ २८ ॥

बलैः समग्रैर्यदि मां रावणं जित्य सम्युगे ।
विजयी स्वपुरीं यायात्तत्तु मे स्याद्यशस्करम् ॥ २९ ॥

शरैस्तु सं‍कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३० ॥

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ ३१ ॥

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।
निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ३३ ॥

स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ ३४ ॥

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।
मनः सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ ३५ ॥

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ३६ ॥

असकृत्तैर्महोत्साहैः ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३७ ॥

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ३८ ॥

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९ ॥

तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४० ॥

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ ४१ ॥

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४२ ॥

सगणं रावणं हत्वा राघवो रघुनन्दनः ।
त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३ ॥

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
न चिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥ ४४ ॥

निहते राक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ४५ ॥

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ ४६ ॥

एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ ४७ ॥

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ ४८ ॥

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् ।
वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सं‍गतान् ॥ ४९ ॥

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ ५० ॥

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५१ ॥

मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ ५२ ॥

रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ ५३ ॥

नास्मिं‍श्चिरं वत्स्यसि देवि देशे
रक्षोगणैरध्युषितेऽतिरौद्रे ।
न ते चिरादागमनं प्रियस्य
क्षमस्व मत्सङ्गमकालमात्रम् ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

<< 38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम् 40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम् >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः