वाल्मीकि रामायणे सुन्दरकाण्ड - एकादशः सर्गः – पानभूमिविचयः

॥ पानभूमिविचयः ॥

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।
जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ १ ॥

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥ २ ॥

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥ ३ ॥

अन्येयमिति निश्चित्य पानभूमौ चचार सः ।
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः ॥ ४ ॥

नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ।
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ॥ ५ ॥

तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ।
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ॥ ६ ॥

रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ।
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥ ७ ॥

रताभिरतसंसुप्तं ददर्श हरियूथपः ।
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ॥ ८ ॥

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ।
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥ ९ ॥

करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः ।
सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥ १० ॥

ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ।
मृगाणां महिषाणां च वराहाणां च भागशः ॥ ११ ॥

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ।
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ॥ १२ ॥

ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा ।
वराह वार्ध्राणसकान्दधिसौवर्चलायुतान् ॥ १३ ॥

शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत ।
क्रकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ॥ १४ ॥

महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् ।
लेह्यानुच्चावचान्पेयान्भोज्यानि विविधानि च ॥ १५ ॥

तथाम्ललवणोत्तंसैर्विविधैरागषाडवैः ।
हारनूपुरकेयूरैरपविद्धैर्महाधनैः ॥ १६ ॥

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ १७ ॥

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ।
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ १८ ॥

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।
मांसैः कुशलसम्युक्तैः पानभूमिगतैः पृथक् ॥ १९ ॥

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ।
शर्करासवमाध्वीकपुष्पासवफलासवाः ॥ २० ॥

वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक् ।
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २१ ॥

हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि ।
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ २२ ॥

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ॥ २३ ॥

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ।
राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २४ ॥

क्वचिदर्धावशेषाणि क्वचित्पीतानि सर्वशः ।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २५ ॥

क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशः ।
क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह ॥ २६ ॥

क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ।
क्वचित्सम्पृक्तमाल्यानि मूलानि च फलानि च ॥ २७ ॥ [जलानि]

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥ २८ ॥

काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च ।
आहृत्य चाबलाः सुप्ताः निद्राबलपराजिताः ॥ २९ ॥

तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।
नात्यर्थं स्पन्दते चित्रं प्राप्यमन्दमिवानिलम् ॥ ३० ॥

चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ।
विविधस्य च माल्यस्य धूपस्य विविधस्य च ॥ ३१ ॥

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ।
रसानां चन्दनानां च धूपानां चैव मूर्छितः ॥ ३२ ॥

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ।
श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ॥ ३३ ॥

काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ।
तासां निद्रावशत्वाच्च मदनेन च मूर्छितम् ॥ ३४ ॥

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ।
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ॥ ३५ ॥

ददर्श सुमहातेजा न ददर्श च जानकीम् ।
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ॥ ३६ ॥

जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ।
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ ३७ ॥

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ।
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ ३८ ॥

अयं चात्र मया दृष्टः परदारपरिग्रहः ।
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ॥ ३९ ॥

निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ।
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥ ४० ॥

न हि मे मनसः किञ्चिद्वैकृत्यमुपपद्यते ।
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने ॥ ४१ ॥

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ।
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ ४२ ॥

स्त्रियो हि स्त्रीषु दृश्यन्ते सर्वथा परिमार्गणे ।
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ॥ ४३ ॥

न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ।
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ॥ ४४ ॥

रावणान्तःपुरं सर्वं दृश्यते न च जानकी ।
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ॥ ४५ ॥

अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ।
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ॥ ४६ ॥

अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ।
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः ।
आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥ ११ ॥

<< 10. दशमः सर्गः – मन्दोदरीदर्शनम् 12. द्वादशः सर्गः – हनूमद्विषादः >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः