वाल्मीकि रामायणे सुन्दरकाण्ड - दशमः सर्गः – मन्दोदरीदर्शनम्

॥ मन्दोदरीदर्शनम् ॥

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।
अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ १ ॥

दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २ ॥

तस्य चैकतमे देशे सोऽग्र्यमालाविभूषितम् ।
ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभम् ॥ ३ ॥

जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ।
अशोकमालाविततं ददर्श परमासनम् ॥ ४ ॥

वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ।
गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।
दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥

तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् ।
लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ।
सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम् ॥ ८ ॥

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ९ ॥

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ १० ॥

पीत्वाप्युपरतं चापि ददर्श स महाकपिः ।
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥

निःश्वसन्तं यथा नागं रावणं वानरर्षभः ।
आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् ॥ १२ ॥

अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् ।
गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४ ॥

काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः ।
विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५ ॥

ऐरावतविषाणाग्रैरापीडनकृतव्रणौ ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६ ॥

पीनौ समसुजातांसौ सङ्गतौ बलसम्युतौ ।
सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीयकलक्षितौ ॥ १७ ॥ [-तल]

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ।
विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ १८ ॥

शशक्षतजकल्पेन सुशीतेन सुगन्धिना ।
चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ ॥ १९ ॥

उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ ।
यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ २० ॥

ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ।
मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव ॥ २१ ॥

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।
शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ २२ ॥

चूतपुन्नागसुरभिर्वकुलोत्तमसम्युतः ।
मृष्टान्नरससम्युक्तः पानगन्धपुरःसरः ॥ २३ ॥

तस्य राक्षससिंहस्य निश्चक्राम महामुखात् ।
शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥ २४ ॥

मुक्तामणिविचित्रेण काञ्चनेन विराजितम् ।
मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५ ॥

रक्तचन्दनदिग्धेन तथा हारेण शोभिना ।
पीनायतविशालेन वक्षसाभिविराजितम् ॥ २६ ॥

पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।
महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २७ ॥

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ।
गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम् ।
प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥ २९ ॥

पादमूलगताश्चापि ददर्श सुमहात्मनः ।
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ३० ॥

शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ।
अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ।
वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२ ॥

वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् ।
ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥

तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ।
विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥

अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी ।
विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥

काचिद्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते ।
महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ।
प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥

पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ।
चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी ॥ ३९ ॥

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ।
रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ ४० ॥

विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ।
निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ ४१ ॥

अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः ।
मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥

भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी ।
पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ४३ ॥

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ।
प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥ ४४ ॥

काचिदाडम्बरं नारी भुजसम्योगपीडितम् ।
कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥

कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी ।
वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ४६ ॥

पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ।
उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४७ ॥

अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ।
अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ४८ ॥

आतोद्यानि विचित्राणि परिष्वज्यापराः स्त्रियः ।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥

तासामेकान्तविन्यस्ते शयानां शयने शुभे ।
ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥ ५० ॥

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् ।
विभूषयन्तीमिव तत्स्वश्रिया भवनोत्तमम् ॥ ५१ ॥

गौरीं कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् ।
कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।
तर्कयामास सीतेति रूपयौवनसम्पदा ।
हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ५३ ॥

आस्फोटयामास चुचुम्ब पुच्छं
ननन्द चिक्रीड जगौ जगाम ।
स्तम्भानरोहन्निपपात भूमौ
निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥

<< 9. नवमः सर्गः – सङ्कुलान्तःपुरम् 11. एकादशः सर्गः – पानभूमिविचयः >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः