॥ हनूमज्जानकीसंवादोपक्रमः ॥
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ १ ॥
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ २ ॥
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ४ ॥
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ ५ ॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ६ ॥
किं नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ॥ ७ ॥
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ ८ ॥
वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥ ९ ॥
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।
रोदनादतिनिःश्वासाद्भूमिसंस्पर्शनादपि ॥ १० ॥
न त्वां देवीमहं मन्ये राज्ञः सञ्ज्ञावधारणात् ।
व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ ११ ॥
महिषी भूमिपालस्य राजकन्याऽसि मे मता ।
रावणेन जनस्थानाद्बलादपहृता यदि ॥ १२ ॥
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ॥ १३ ॥
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥ १४ ॥
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥ १५ ॥
स्नुषा दशरथस्याहं शत्रुसैन्यप्रमाथिनः । [प्रतापिनः]
दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ १६ ॥
सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ।
समा द्वादश तत्राहं राघवस्य निवेशने ॥ १७ ॥
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ॥ १८ ॥
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने ॥ १९ ॥
कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ॥ २० ॥
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ २१ ॥
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ॥ २२ ॥
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥ २३ ॥
ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ॥ २४ ॥
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किञ्चिदप्रियम् ॥ २५ ॥
अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।
स विहायोत्तरीयाणि महार्हाणि महायशाः ॥ २६ ॥
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।
साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ॥ २७ ॥
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ।
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ॥ २८ ॥
पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ।
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः ॥ २९ ॥
प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम् ।
वसतो दण्डकारण्ये तस्याहममितौजसः ॥ ३० ॥
रक्षसाऽपहृता भार्या रावणेन दुरात्मना ।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
<< 32. द्वात्रिंशः सर्गः – सीतावितर्कः 34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम् >>2. द्वितीयः सर्गः – निशागमप्रतीक्षा
3. तृतीयः सर्गः – लङ्काधिदेवताविजयः
4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः
6. षष्ठः सर्गः – रावणगृहावेक्षणम्
7. सप्तमः सर्गः – पुष्पकदर्शनम्
8. अष्टमः सर्गः – पुष्पकानुवर्णनम्
9. नवमः सर्गः – सङ्कुलान्तःपुरम्
10. दशमः सर्गः – मन्दोदरीदर्शनम्
11. एकादशः सर्गः – पानभूमिविचयः
12. द्वादशः सर्गः – हनूमद्विषादः
13. त्रयोदशः सर्गः – हनूमन्निर्वेदः
14. चतुर्दशः सर्गः – अशोकवनिकाविचयः
15. पञ्चदशः सर्गः – सीतोपलम्भः
16. षोडशः सर्गः – हनूमत्परीतापः
17. सप्तदशः सर्गः – राक्षसीपरिवारः
18. अष्टादशः सर्गः – रावणागमनम्
19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः
20. विंशः सर्गः – प्रणयप्रार्थना
21. एकविंशः सर्गः – रावणतृणीकरणम्
22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्
23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्
24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्
25. पञ्चविंशः सर्गः – सीतानिर्वेदः
26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्
27. सप्तविंशः सर्गः – त्रिजटास्वप्नः
28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः
29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि
30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्
31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः
32. द्वात्रिंशः सर्गः – सीतावितर्कः
33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः
34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्
35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्
36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्
37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्
38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्
39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः
40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्
41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्
42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्
43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः
44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः
45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः
46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः
47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः
48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः
49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्
50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः
51. एकपञ्चाशः सर्गः – हनूमदुपदेशः
52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्
53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्
54. चतुःपञ्चाशः सर्गः – लङ्कादाहः
55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः
56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्
57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्
59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्
60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः
61. एकषष्टितमः सर्गः – मधुवनप्रवेशः
62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः
63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः
64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्
65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्
66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः