॥ सीतोपलभ्यः ॥
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ १ ॥
सन्तानकलताभिश्च पादपैरुपशोभिताम् ।
दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ २ ॥
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः ।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ६ ॥
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।
आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ ७ ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८ ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।
पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥ ९ ॥
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः ।
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ॥ १० ॥
नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ।
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ॥ ११ ॥
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ।
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ १२ ॥
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ।
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ १३ ॥
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ।
अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ॥ १४ ॥
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ।
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥ १५ ॥
स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ।
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ १६ ॥
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ।
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ १७ ॥
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ।
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥ १८ ॥
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ १९ ॥
मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ।
पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ २० ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ।
सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ॥ २१ ॥
पीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् । [व्रीडितां]
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ २२ ॥
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥ २३ ॥
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥ २४ ॥
नीलनागाभया वेण्या जघनं गतयैकया ।
नीलया नीरदापाये वनराज्या महीमिव ॥ २५ ॥
सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम् ।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥ २६ ॥
तर्कयामास सीतेति कारणैरुपपादिभिः ।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥ २७ ॥
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ।
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ २८ ॥
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ।
तां नीलकण्ठीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ २९ ॥ [नीलकेशीं]
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ ३० ॥
भूमौ सुतनुमासीनां नियतामिव तापसीम् ।
निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ ३१ ॥
शोकजालेन महता विततेन न राजतीम् ।
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ ३२ ॥
तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ।
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ ३३ ॥
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ ३४ ॥
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ।
अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः ॥ ३५ ॥
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ।
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥ ३६ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ ३७ ॥
तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३८ ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ३९ ॥
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ ४० ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।
तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥ ४१ ॥
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ ४२ ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ।
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४३ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४४ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४५ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ।
अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४६ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।
तथापि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४७ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।
प्रनष्टापि सती यास्य मनसो न प्रणश्यति ॥ ४८ ॥
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४९ ॥
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ५० ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।
रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ ५१ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५२ ॥
दुष्करं कृतवान्रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५३ ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
विना सीतां महाबाहुर्मुहूर्तमपि जीवति ॥ ५४ ॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः ।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
<< 14. चतुर्दशः सर्गः – अशोकवनिकाविचयः 16. षोडशः सर्गः – हनूमत्परीतापः >>2. द्वितीयः सर्गः – निशागमप्रतीक्षा
3. तृतीयः सर्गः – लङ्काधिदेवताविजयः
4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः
6. षष्ठः सर्गः – रावणगृहावेक्षणम्
7. सप्तमः सर्गः – पुष्पकदर्शनम्
8. अष्टमः सर्गः – पुष्पकानुवर्णनम्
9. नवमः सर्गः – सङ्कुलान्तःपुरम्
10. दशमः सर्गः – मन्दोदरीदर्शनम्
11. एकादशः सर्गः – पानभूमिविचयः
12. द्वादशः सर्गः – हनूमद्विषादः
13. त्रयोदशः सर्गः – हनूमन्निर्वेदः
14. चतुर्दशः सर्गः – अशोकवनिकाविचयः
15. पञ्चदशः सर्गः – सीतोपलम्भः
16. षोडशः सर्गः – हनूमत्परीतापः
17. सप्तदशः सर्गः – राक्षसीपरिवारः
18. अष्टादशः सर्गः – रावणागमनम्
19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः
20. विंशः सर्गः – प्रणयप्रार्थना
21. एकविंशः सर्गः – रावणतृणीकरणम्
22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्
23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्
24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्
25. पञ्चविंशः सर्गः – सीतानिर्वेदः
26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्
27. सप्तविंशः सर्गः – त्रिजटास्वप्नः
28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः
29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि
30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्
31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः
32. द्वात्रिंशः सर्गः – सीतावितर्कः
33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः
34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्
35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्
36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्
37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्
38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्
39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः
40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्
41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्
42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्
43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः
44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः
45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः
46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः
47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः
48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः
49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्
50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः
51. एकपञ्चाशः सर्गः – हनूमदुपदेशः
52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्
53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्
54. चतुःपञ्चाशः सर्गः – लङ्कादाहः
55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः
56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्
57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्
59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्
60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः
61. एकषष्टितमः सर्गः – मधुवनप्रवेशः
62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः
63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः
64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्
65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्
66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः