वाल्मीकि रामायणे सुन्दरकाण्ड - एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

॥ कृच्छ्रगतसीतोपमाः ॥

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ।
रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥ १ ॥

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।
प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३ ॥

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ ४ ॥

असंवृतायामासीनां धरण्यां संशितव्रताम् ।
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ ५ ॥

मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ।
मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ ६ ॥

समीपं राजसिंहस्य रामस्य विदितात्मनः ।
सङ्कल्पहयसम्युक्तैर्यान्तीमिव मनोरथैः ॥ ७ ॥

शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् ।
दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ ८ ॥

वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव ।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ९ ॥

वृत्तशीलकुले जातामाचारवति धार्मिके ।
पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥ १० ॥

अभूतेनापवादेन कीर्तिं निपतितामिव ।
अम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ११ ॥

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।
प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ॥ १२ ॥ [पूजा]

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजामपहृतामिव ॥ १३ ॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४ ॥

वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।
पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ १५ ॥

उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् ।
हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ १६ ॥

पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ।
परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७ ॥

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।
तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १८ ॥

गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ।
निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १९ ॥

एकया दीर्घया वेण्या शोभमानामयत्नतः ।
नीलया नीरदापाये वनराज्या महीमिव ॥ २० ॥

उपवासेन शोकेन ध्यानेन च भयेन च ।
परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ २१ ॥

आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ।
भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२ ॥

समीक्षमाणां रुदतीमनिन्दितां
सुपक्ष्मताम्रायतशुक्ललोचनाम् ।
अनुव्रतां राममतीव मैथिलीं
प्रलोभयामास वधाय रावणः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥

<< 18. अष्टादशः सर्गः – रावणागमनम् 20. विंशः सर्गः – प्रणयप्रार्थना >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः