वाल्मीकि रामायणे सुन्दरकाण्ड - पञ्चविंशः सर्गः – सीतानिर्वेदः

॥ सीतानिर्वेदः ॥

तथा तासां वदन्तीनां परुषं दारुणं बहु ।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ १ ॥

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ २ ॥

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ३ ॥

सा राक्षसीमध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ ४ ॥

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ ५ ॥

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ ६ ॥

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥ ७ ॥

सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विषण्णवदनाऽभवत् ॥ ८ ॥ [विवर्ण]

तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ९ ॥

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ १० ॥

हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ११ ॥

लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ १२ ॥

यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३ ॥

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ १४ ॥

भर्तारं तमपश्यन्ती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५ ॥

तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६ ॥

सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ १७ ॥

कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८ ॥

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९ ॥

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

<< 24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम् 26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम् >>

1. प्रथमः सर्गः – सागरलङ्घनम्

2. द्वितीयः सर्गः – निशागमप्रतीक्षा

3. तृतीयः सर्गः – लङ्काधिदेवताविजयः

4. चतुर्थः सर्गः – लङ्कापुरीप्रवेशः

5. पञ्चमः सर्गः – भवनविचयः

6. षष्ठः सर्गः – रावणगृहावेक्षणम्

7. सप्तमः सर्गः – पुष्पकदर्शनम्

8. अष्टमः सर्गः – पुष्पकानुवर्णनम्

9. नवमः सर्गः – सङ्कुलान्तःपुरम्

10. दशमः सर्गः – मन्दोदरीदर्शनम्

11. एकादशः सर्गः – पानभूमिविचयः

12. द्वादशः सर्गः – हनूमद्विषादः

13. त्रयोदशः सर्गः – हनूमन्निर्वेदः

14. चतुर्दशः सर्गः – अशोकवनिकाविचयः

15. पञ्चदशः सर्गः – सीतोपलम्भः

16. षोडशः सर्गः – हनूमत्परीतापः

17. सप्तदशः सर्गः – राक्षसीपरिवारः

18. अष्टादशः सर्गः – रावणागमनम्

19. एकोनविंशः सर्गः – कृच्छ्रगतसीतोपमाः

20. विंशः सर्गः – प्रणयप्रार्थना

21. एकविंशः सर्गः – रावणतृणीकरणम्

22. द्वाविंशः सर्गः – मासद्वयावधिकरणम्

23. त्रयोविंशः सर्गः – राक्षसीप्ररोचनम्

24. चतुर्विंशः सर्गः – राक्षसीनिर्भर्त्सनम्

25. पञ्चविंशः सर्गः – सीतानिर्वेदः

26. षड्विंशः सर्गः – प्राणत्यागसम्प्रधारणम्

27. सप्तविंशः सर्गः – त्रिजटास्वप्नः

28. अष्टाविंशः सर्गः – उद्बन्धनव्यवसायः

29. एकोनत्रिंशः सर्गः – शुभनिमित्तानि

30. त्रिंशः सर्गः – हनूमत्कृत्याकृत्यविचिन्तनम्

31. एकत्रिंशः सर्गः – रामवृत्तसंश्रवः

32. द्वात्रिंशः सर्गः – सीतावितर्कः

33. त्रयोस्त्रिंशः सर्गः – हनूमज्जानकीसंवादोपक्रमः

34. चतुस्त्रिंशः सर्गः – रावणशङ्कानिवारणम्

35. पञ्चत्रिंशः सर्गः – विश्वासोत्पादनम्

36. षट्त्रिंशः सर्गः – अङ्गुलीयकप्रदानम्

37. सप्तत्रिंशः सर्गः – सीताप्रत्यानयनानौचित्यम्

38. अष्टात्रिंशः सर्गः – वायसवृत्तान्तकथनम्

39. एकोनचत्वारिंशः सर्गः – हनूमत्सन्देशः

40. चत्वारिंशः सर्गः – हनूमत्प्रेषणम्

41. एकचत्वारिंशः सर्गः – प्रमदावनभञ्जनम्

42. द्विचत्वारिंशः सर्गः – किङ्करनिषूदनम्

43. त्रिचत्वारिंशः सर्गः – चैत्यप्रासाददाहः

44. चतुश्चत्वारिंशः सर्गः – जम्बुमालिवधः

45. पञ्चचत्वारिंशः सर्गः – अमात्यपुत्रवधः

46. षट्चत्वारिंशः सर्गः – सेनापतिपञ्चकवधः

47. सप्तचत्वारिंशः सर्गः – अक्षकुमारवधः

48. अष्टचत्वारिंशः सर्गः – इन्द्रजिदभियोगः

49. एकोनपञ्चाशः सर्गः – रावणप्रभावदर्शनम्

50. पञ्चाशः सर्गः – प्रहस्तप्रश्नः

51. एकपञ्चाशः सर्गः – हनूमदुपदेशः

52. द्विपञ्चाशः सर्गः – दूतवधनिवारणम्

53. त्रिपञ्चाशः सर्गः – पावकशैत्यम्

54. चतुःपञ्चाशः सर्गः – लङ्कादाहः

55. पञ्चपञ्चाशः सर्गः – हनूमद्विभ्रमः

56. षट्पञ्चाशः सर्गः – प्रतिप्रयाणोत्पतनम्

57. सप्तपञ्चाशः सर्गः – हनूमत्प्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – हनूमद्वृत्तानुकथनम्

59. एकोनषष्टितमः सर्गः – अनन्तरकार्यप्ररोचनम्

60. षष्टितमः सर्गः – अङ्गदजाम्बवत्संवादः

61. एकषष्टितमः सर्गः – मधुवनप्रवेशः

62. द्विषष्टितमः सर्गः – दधिमुखखिलीकारः

63. त्रिषष्टितमः सर्गः – सुग्रीवहर्षः

64. चतुःषष्टितमः सर्गः – हनूमदाद्यागमनम्

65. पञ्चषष्टितमः सर्गः – चूडामणिप्रदानम्

66. षट्षष्टितमः सर्गः – सीताभाषितप्रश्नः

67. सप्तषष्टितमः सर्गः – सीताभाषितानुवचनम्

68. अष्टषष्टितमः सर्गः – हनूमत्समाश्वासवचनानुवादः