वाल्मीकि रामायणे अरण्यकाण्ड - षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

॥ रक्षोवधप्रतिज्ञानम् ॥

शरभङ्गे दिवं याते मुनिसङ्घाः समागताः ।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ १ ॥

वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः ।
अश्मकुट्‍टाश्च बहवः पत्राहाराश्च धार्मिकाः ॥ २ ॥

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे ।
गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ ३ ॥

मुनयः सलिलाहारा वायुभक्षास्तथापरे ।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ ४ ॥

व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः ।
सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः ॥ ५ ॥

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगाः समाहिताः ।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ६ ॥

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ।
ऊचुः परमधर्मज्ञमृषिसङ्घाः समाहिताः ॥ ७ ॥

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ ।
प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ ८ ॥

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥ ९ ॥

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ १० ॥

अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ।
यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत् ॥ ११ ॥

युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव ।
नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः ॥ १२ ॥

प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ १३ ॥

यत्करोति परं धर्मं मुनिर्मूलफलाशनः ।
तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ १४ ॥

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।
त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ॥ १५ ॥

एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ १६ ॥

पम्पानदीनिवासानामनुमन्दाकिनीमपि ।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ १७ ॥

एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् ।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥ १८ ॥

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।
परिपालय नो राम वध्यमानान्निशाचरैः ॥ १९ ॥

परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते ।
परिपालय नः सर्वान्राक्षसेभ्यो नृपात्मज ॥ २० ॥

एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥ २१ ॥

नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम् ।
केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ २२ ॥

विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम् ।
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ २३ ॥

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ।
तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ २४ ॥

तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् ।
पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ २५ ॥

दत्त्वाऽभयं चापि तपोधनानां
धर्मे धृतात्मा सह लक्ष्मणेन ।
तपोधनैश्चापि सभाज्यवृत्तः
सुतीक्ष्णमेवाभिजगाम वीरः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठः सर्गः ॥ ६ ॥

<< 5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम् 7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः >>

1. प्रथमः सर्गः – महर्षिसङ्घः

2. द्वितीयः सर्गः – विराधसंरोधः

3. तृतीयः सर्गः – विराधप्रहारः

4. चतुर्थः सर्गः – विराधनिखननम्

5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्

6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः

8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा

9. नवमः सर्गः – सीताधर्मावेदनम्

10. दशमः सर्गः – रक्षोवधसमर्थनम्

11. एकादशः सर्गः – अगस्त्याश्रमः

12. द्वादशः सर्गः – अगस्त्यदर्शनम्

13. त्रयोदशः सर्गः – पञ्चवटीगमनम्

14. चतुर्दशः सर्गः – जटायुःसङ्गमः

15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

16. षोडशः सर्गः – हेमन्तवर्णनम्

17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्

18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्

19. एकोनविंशः सर्गः – खरक्रोधः

20. विंशः सर्गः – चतुर्दशरक्षोवधः

21. एकविंशः सर्गः – खरसन्धुक्षणम्

22. द्वाविंशः सर्गः – खरसंनाहः

23. त्रयोविंशः सर्गः – उत्पातदर्शनम्

24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः

25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः

26. षड्विंशः सर्गः – दूषणादिवधः

27. सप्तविंशः सर्गः – त्रिशिरोवधः

28. अष्टाविंशः सर्गः – खररामसम्प्रहारः

29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्

30. त्रिंशः सर्गः – खरसंहारः

31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः

32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः

33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा

34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः

35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्

36. षट्त्रिंशः सर्गः – सहायैषणा

37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्

38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा

39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः

41. एकचत्वारिंशः सर्गः – रावणनिन्दा

42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्

43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्

44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना

45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्

46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः

47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः

48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्

49. एकोनपञ्चाशः सर्गः – सीतापहरणम्

50. पञ्चाशः सर्गः – जटायुरभियोगः

51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्

52. द्विपञ्चाशः सर्गः – सीताविक्रोशः

53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्

54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्

55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः

56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्

57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्

59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्

60. षष्टितमः सर्गः – रामोन्मादः

61. एकषष्टितमः सर्गः – सीतान्वेषणम्

62. द्विषष्टितमः सर्गः – राघवविलापः

63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्

64. चतुःषष्टितमः सर्गः – रामक्रोधः

65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना

66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्

67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्

68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः

69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः

70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः

71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्

72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः

73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्

74. चतुःसप्ततितमः सर्गः – शबरीस्वर्गप्राप्तिः

75. पञ्चसप्ततितमः सर्गः – पम्पादर्शनम्