॥ अप्रियपथ्यवचनम् ॥
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १ ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २ ॥
न नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम् ।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ ३ ॥
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।
अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ॥ ४ ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥ ५ ॥
अपि त्वमीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ ६ ॥
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ ७ ॥
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन ।
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥ ८ ॥
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ ९ ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।
करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ १० ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।
अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ १२ ॥
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ १३ ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ १४ ॥
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ १५ ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।
चापपाशधरं वीरं शत्रुसैन्यपहारिणम् ॥ १६ ॥
राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः ।
नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ १७ ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८ ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ १९ ॥
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया ।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ २० ॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप ।
दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥ २१ ॥
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ २२ ॥
स सर्वैः सचिवैः सार्धं विभीषणपुरोगमैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ २३ ॥
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ २४ ॥
अहं तु मन्ये तव न क्षमं रणे
समागमं कोसलराजसूनुना ।
इदं हि भूयः शृणु वाक्यमुत्तमं
क्षमं च युक्तं च निशाचरेश्वर ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
<< 36. षट्त्रिंशः सर्गः – सहायैषणा 38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्