॥ सीतापहरणम् ॥
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ १ ॥
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३ ॥
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्निर्भिन्द्यां हि महीतलम् ।
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥ ४ ॥
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ ५ ॥
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ ६ ॥
संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।
क्रोधेन महताविष्टो नीलजीमूतसन्निभः ॥ ७ ॥
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८ ॥
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥ ९ ॥
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ।
स तामसितकेशान्तां भास्करस्य प्रभामिव ॥ १० ॥
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥ ११ ॥
मामाश्रय वरारोहे तवाहं सदृशः पतिः ।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ॥ १२ ॥
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥ १३ ॥
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥ १४ ॥
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ॥ १५ ॥
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ॥ १६ ॥
जग्राह रावणः सीतां बुधः खे रोहिणीमिव ।
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ १७ ॥
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ।
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ॥ १८ ॥
प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥ १९ ॥
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ॥ २० ॥
अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।
सा गृहीता विचुक्रोश रावणेन यशस्विनी ॥ २१ ॥
रामेति सीता दुःखार्ता रामं दूरगतं वने ।
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ॥ २२ ॥
विवेष्टमानामादाय उत्पपाताथ रावणः ।
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ॥ २३ ॥
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ।
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ॥ २४ ॥
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥ २५ ॥
ह्रियमाणामधर्मेण मां राघव न पश्यसि ।
ननु नामाविनीतानां विनेतासि परन्तप ॥ २६ ॥
कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ।
ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ॥ २७ ॥
कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ।
स कर्म कृतवानेतत् कालोपहतचेतनः ॥ २८ ॥
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ।
हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः ॥ २९ ॥
ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ।
आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ॥ ३० ॥
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ।
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम् ॥ ३१ ॥
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ॥ ३२ ॥
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
दैवतानि च यान्यस्मिन् वने विविधपादपे ॥ ३३ ॥
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ।
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ॥ ३४ ॥
सर्वाणि शरणं यामि मृगपक्षिगणानपि ।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ॥ ३५ ॥
विवशाऽपहृता सीता रावणेनेति शंसत ।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥ ३६ ॥
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ॥ ३७ ॥
वनस्पतिगतं गृध्रं ददर्शायतलोचना ।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ॥ ३८ ॥
समाक्रन्दद्भयपरा दुःखोपहतया गिरा ।
जटायो पश्य मामार्य ह्रियमाणामनाथवत् ॥ ३९ ॥
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ॥ ४० ॥
सत्त्ववान् जितकाशी च सायुधश्चैव दुर्मतिः ।
रामाय तु यथातत्त्वं जटायो हरणं मम ।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
<< 48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम् 50. पञ्चाशः सर्गः – जटायुरभियोगः >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्