वाल्मीकि रामायणे अरण्यकाण्ड - पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

॥ पञ्चवटीपर्णशाला ॥

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ।
उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ १ ॥

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।
अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ॥ २ ॥

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ।
आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥ ३ ॥

रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ।
तादृशो दृश्यातां देशः सन्निकृष्टजलाशयः ॥ ४ ॥

वनरामण्यकं यत्र स्थलरामण्यकं तथा ।
सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ॥ ५ ॥

एवमुक्तस्तु रामेण लक्ष्मणः सम्यताञ्जलिः ।
सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ ६ ॥

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।
स्वयं तु रुचिरे देशे क्रियातामिति मां वद ॥ ७ ॥

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः ।
विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥ ८ ॥

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।
हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९ ॥

अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः ।
इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥ १० ॥

इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः ।
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ ॥

यथाऽऽख्यातमगस्त्येन मुनिना भावितात्मना ।
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ॥ १२ ॥

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।
नातिदूरेण चासन्ने मृगयूथनिपीडिताः ॥ १३ ॥

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ।
दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ॥ १४ ॥

सौवर्णै राजतैस्ताम्रैर्देशे देशे च धातुभिः ।
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५ ॥

सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः ।
निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ १६ ॥

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि ।
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७ ॥

चन्दनैः स्पन्दनैर्नीपैः पनसैर्लिकुचैरपि ।
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८ ॥

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ।
इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ १९ ॥

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ २० ॥

पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम् ।
सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥ २१ ॥

शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ।
कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ॥ २२ ॥

समीकृततलां रम्यां चकार लघुविक्रमः ।
निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ २३ ॥

स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा ।
स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥ २४ ॥

ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि ।
दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५ ॥

स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ।
राघवः पर्णशालायां हर्षमाहारयद्भृशम् ॥ २६ ॥

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ २७ ॥

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २८ ॥

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।
त्वाया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ २९ ॥

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ।
तस्मिन्देशे बहुफले न्यवसत्सुसुखं वशी ॥ ३० ॥

कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।
अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

<< 14. चतुर्दशः सर्गः – जटायुःसङ्गमः 16. षोडशः सर्गः – हेमन्तवर्णनम् >>

1. प्रथमः सर्गः – महर्षिसङ्घः

2. द्वितीयः सर्गः – विराधसंरोधः

3. तृतीयः सर्गः – विराधप्रहारः

4. चतुर्थः सर्गः – विराधनिखननम्

5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्

6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः

8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा

9. नवमः सर्गः – सीताधर्मावेदनम्

10. दशमः सर्गः – रक्षोवधसमर्थनम्

11. एकादशः सर्गः – अगस्त्याश्रमः

12. द्वादशः सर्गः – अगस्त्यदर्शनम्

13. त्रयोदशः सर्गः – पञ्चवटीगमनम्

14. चतुर्दशः सर्गः – जटायुःसङ्गमः

15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

16. षोडशः सर्गः – हेमन्तवर्णनम्

17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्

18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्

19. एकोनविंशः सर्गः – खरक्रोधः

20. विंशः सर्गः – चतुर्दशरक्षोवधः

21. एकविंशः सर्गः – खरसन्धुक्षणम्

22. द्वाविंशः सर्गः – खरसंनाहः

23. त्रयोविंशः सर्गः – उत्पातदर्शनम्

24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः

25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः

26. षड्विंशः सर्गः – दूषणादिवधः

27. सप्तविंशः सर्गः – त्रिशिरोवधः

28. अष्टाविंशः सर्गः – खररामसम्प्रहारः

29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्

30. त्रिंशः सर्गः – खरसंहारः

31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः

32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः

33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा

34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः

35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्

36. षट्त्रिंशः सर्गः – सहायैषणा

37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्

38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा

39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः

41. एकचत्वारिंशः सर्गः – रावणनिन्दा

42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्

43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्

44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना

45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्

46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः

47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः

48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्

49. एकोनपञ्चाशः सर्गः – सीतापहरणम्

50. पञ्चाशः सर्गः – जटायुरभियोगः

51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्

52. द्विपञ्चाशः सर्गः – सीताविक्रोशः

53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्

54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्

55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः

56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्

57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्

59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्

60. षष्टितमः सर्गः – रामोन्मादः

61. एकषष्टितमः सर्गः – सीतान्वेषणम्

62. द्विषष्टितमः सर्गः – राघवविलापः

63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्

64. चतुःषष्टितमः सर्गः – रामक्रोधः

65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना

66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्

67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्

68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः

69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः

70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः

71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्

72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः

73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्

74. चतुःसप्ततितमः सर्गः – शबरीस्वर्गप्राप्तिः

75. पञ्चसप्ततितमः सर्गः – पम्पादर्शनम्