॥ लक्ष्मणागमनविगर्हणम् ॥
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः ।
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ॥ १ ॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ।
यदा सा तव विश्वासाद्वने विरहिता मया ॥ २ ॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ।
शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥ ३ ॥
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ ४ ॥
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः ।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५ ॥
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ ६ ॥
आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च ।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ ७ ॥
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।
गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ ८ ॥
प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।
प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ ९ ॥
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ।
निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १० ॥
विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।
त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ॥ ११ ॥
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ।
राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ १२ ॥
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १३ ॥
अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ।
न सोऽस्ति त्रिषु लोकेषु पुमान् वै राघवं रणे ॥ १४ ॥
जातो वा जायमानो वा सम्युगे यः पराजयेत् ।
न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५ ॥
एवमुक्ता तु वैदेही परिमोहितचेतना ।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ १६ ॥
भावो मयि तावात्यर्थं पाप एव निवेशितः ।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ १७ ॥
सङ्केताद्भरतेन त्वं रामं समनुगच्छसि ।
क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे ॥ १८ ॥
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।
राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ १९ ॥
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।
क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥ २० ॥
एवं ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः ।
अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ॥ २१ ॥
जानन्नपि समर्थं मां राक्षसां विनिवारणे ।
अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥ २२ ॥
न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।
क्रुद्धायाः परुषं वाक्यं श्रुत्वा यत्त्वमिहागतः ॥ २३ ॥
सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ।
क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥ २४ ॥
असौ हि राक्षसः शेते शरेणाभिहतो मया ।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥ २५ ॥
विकृष्य चापं परिधाय सायकं
सलीलबाणेन च ताडितो मया ।
मार्गीं तनुं त्यज्य स विक्लबस्वरो
बभूव केयूरधरः स राक्षसः ॥ २६ ॥
शराहतेनैव तदार्तया गिरा
स्वरं ममालम्ब्य सुदूरसंश्रवम् ।
उदाहृतं तद्वचनं सुदारुणं
त्वमागतो येन विहाय मैथिलीम् ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
<< 58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम् 60. षष्टितमः सर्गः – रामोन्मादः >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्