॥ जटायूरावणयुद्धम् ॥
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥ १ ॥
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २ ॥
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने ।
बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ ३ ॥
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ४ ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ ५ ॥
स तानि शरजालानि गृध्रः पत्ररथेश्वरः ।
जटायुः प्रतिजग्राह रावणास्त्राणि सम्युगे ॥ ६ ॥
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।
चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ ७ ॥
अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् ।
मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया ॥ ८ ॥
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ॥ ९ ॥
स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् ।
अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ॥ १० ॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११ ॥
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्छितः ।
ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ १२ ॥
शरैरावारितस्तस्य सम्युगे पतगेश्वरः ।
कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा ॥ १३ ॥
स तानि शरवर्षाणि पक्षाभ्यां च विधूय च ।
चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥ १४ ॥
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।
पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ॥ १५ ॥
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् ।
तांश्चास्य जवसम्पन्नान् जघान समरे बली ॥ १६ ॥
वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् ।
मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥ १७ ॥
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ।
पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ १८ ॥
सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ।
पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः ॥ १९ ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः ।
अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ २० ॥
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।
साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥ २१ ॥
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ २२ ॥
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।
गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् ॥ २३ ॥
समावार्य महातेजा जटायुरिदमब्रवीत् ।
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ॥ २४ ॥
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ।
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ॥ २५ ॥
विषपानं पिबस्येतत्पिपासित इवोदकम् ।
अनुबन्धमजानन्तः कर्मणामविचक्षणाः ॥ २६ ॥
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ।
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ॥ २७ ॥
वधाय बडिशं गृह्य सामिषं जलजो यथा ।
न हि जातु दुराधर्षो काकुत्स्थौ तव रावण ॥ २८ ॥
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ।
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ॥ २९ ॥
तस्कराचरितो मार्गो नैष वीरनिषेवितः ।
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ॥ ३० ॥
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ।
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ॥ ३१ ॥
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ।
पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ॥ ३२ ॥
कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ।
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ॥ ३३ ॥
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ।
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ॥ ३४ ॥
अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् ।
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ॥ ३५ ॥
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ।
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ॥ ३६ ॥
अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ।
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ॥ ३७ ॥
तलेनाभिजघानाशु जटायुं क्रोधमूर्छितः ।
जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः ॥ ३८ ॥
वामबाहून् दश तदा व्यपाहरदरिन्दमः ।
सञ्छिन्नबाहोः सद्यैव बाहवः सहसाऽभवन् ॥ ३९ ॥
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ।
ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः ॥ ४० ॥
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ।
ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः ॥ ४१ ॥
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ।
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ॥ ४२ ॥
पक्षौ पार्श्वौ च पादौ च खड्गमुद्धृत्य सोऽच्छिनत् ।
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।
निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥ ४३ ॥
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।
अभ्यधावत वैदही स्वबन्धुमिव दुःखिता ॥ ४४ ॥
तं नीलजीमूतनिकाशकल्पं
सुपाण्डुरोरस्कमुदारवीर्यम् ।
ददर्श लङ्काधिपतिः पृथिव्यां
जटायुषं शान्तमिवाग्निदावम् ॥ ४५ ॥
ततस्तु तं पत्ररथं महीतले
निपातितं रावणवेगमर्दितम् ।
पुनः परिष्वज्य शशिप्रभानना
रुरोद सीता जनकात्मजा तदा ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
<< 50. पञ्चाशः सर्गः – जटायुरभियोगः 52. द्विपञ्चाशः सर्गः – सीताविक्रोशः >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्