॥ विराधनिखननम् ॥
ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
उच्चैःस्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ १ ॥
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः ।
रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ २ ॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा ।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३ ॥
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ४ ॥
तस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः ।
धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ ६ ॥
मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् ।
उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ७ ॥
स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८ ॥
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् ।
भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥
तपसा पुरुषव्याघ्र राक्षसो:’यं न शक्यते ।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ १० ॥
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः ।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ ११ ॥
हतो:’हं पुरुषव्याघ्र शक्रतुल्यबलेन वै ।
मया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ॥ १२ ॥
कौसल्या सुप्रजा तात रामस्त्वं विदितो मया । [राम तात]
वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ १३ ॥
अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ १४ ॥
प्रसाद्यमानश्च मया सो:’ब्रवीन्मां महायशाः ।
यदा दाशरथी रामस्त्वां वधिष्यति सम्युगे ॥ १५ ॥
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति ।
इति वैश्रवणो राजा रम्भासक्तं पुरा:’नघ ॥ १६ ॥
अनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ।
तव प्रसादान्मुक्तो:’हमभिशापात्सुदारुणात् ॥ १७ ॥
भुवनं स्वं गमिष्यामि स्वस्ति वो:’स्तु परन्तप ।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ १८ ॥
अध्यर्धयोजने तात महर्षिः सूर्यसन्निभः ।
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ १९ ॥
अवटे चापि मां राम प्रक्षिप्य कुशली व्रज ।
रक्षसां गतसत्त्वानामेष धर्मः सनातनः ॥ २० ॥
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ।
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ॥ २१ ॥
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ।
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ २२ ॥
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण ।
वने:’स्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ॥ २३ ॥
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ २४ ॥
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् ।
अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २५ ॥
तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम् ।
विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ २६ ॥
तमाहवे निर्जितमाशुविक्रमौ
स्थिरावुभौ सम्यति रामलक्ष्मणौ ।
मदान्वितौ चिक्षिपतुर्भयावहं
नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ २७ ॥
अवध्यतां प्रेक्ष्य महासुरस्य तौ
शितेन शस्त्रेण तदा नरर्षभौ ।
समर्थ्य चात्यर्थविशारदावुभौ
बिले विराधस्य वधं प्रचक्रतुः ॥ २८ ॥
स्वयं विराधेन हि मृत्युरात्मनः
प्रसह्य रामेण वधार्थमीप्सितः ।
निवेदितः काननचारिणा स्वयं
न मे वधः शस्त्रकृतो भवेदिति ॥ २९ ॥
तदेव रामेण निशम्य भाषितं
कृता मतिस्तस्य बिलप्रवेशने ।
बिलं च रामेण बलेन रक्षसा
प्रवेश्यमानेन वनं विनादितम् ॥ ३० ॥
प्रहृष्टरूपाविव रामलक्ष्मणौ
विराधमुर्व्यां प्रदरे निखाय तम् । [निहत्य तौ]
ननन्दतुर्वीतभयौ महावने
शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३१ ॥
ततस्तु तौ कार्मुकखड्गधारिणौ
निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजह्नतुस्तौ मुदितौ महावने
दिवि स्थितौ चन्द्रदिवाकराविव ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्थः सर्गः ॥ ४ ॥
<< 3. तृतीयः सर्गः – विराधप्रहारः 5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम् >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्