वाल्मीकि रामायणे अरण्यकाण्ड - एकोनविंशः सर्गः – खरक्रोधः

॥ खरक्रोधः ॥

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥ १ ॥

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥ २ ॥

कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ॥ ३ ॥

कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते ।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ४ ॥

बलविक्रमसम्पन्ना कामगा कामरूपिणी ।
इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ ५ ॥

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।
अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ ८ ॥

निहतस्य मया सङ्ख्ये शरसङ्कृत्तमर्मणः ।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ ९ ॥

कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः ।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ १० ॥

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥ ११ ॥

उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ १२ ॥

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ १३ ॥

तरुणौ रूपसम्पन्नौ सुकूमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १४ ॥

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५ ॥

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७ ॥

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताहं यथानाथासती तथा ॥ १८ ॥

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १९ ॥

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ २० ॥

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ २१ ॥

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ २२ ॥

तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३ ॥

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः ।
शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ २४ ॥

युष्माभिर्निर्हतौ दृष्ट्वा तावुभौ भ्रातरौ रणे ।
इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति ॥ २५ ॥

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ २६ ॥

ततस्तु ते तं समुदग्रतेजसं
तथापि तीक्ष्णप्रदरा निशाचराः ।
न शेकुरेनं सहसा प्रमर्दितुं
वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥ १९ ॥

<< 18. अष्टादशः सर्गः – शूर्पणखाविरूपणम् 20. विंशः सर्गः – चतुर्दशरक्षोवधः >>

1. प्रथमः सर्गः – महर्षिसङ्घः

2. द्वितीयः सर्गः – विराधसंरोधः

3. तृतीयः सर्गः – विराधप्रहारः

4. चतुर्थः सर्गः – विराधनिखननम्

5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्

6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः

8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा

9. नवमः सर्गः – सीताधर्मावेदनम्

10. दशमः सर्गः – रक्षोवधसमर्थनम्

11. एकादशः सर्गः – अगस्त्याश्रमः

12. द्वादशः सर्गः – अगस्त्यदर्शनम्

13. त्रयोदशः सर्गः – पञ्चवटीगमनम्

14. चतुर्दशः सर्गः – जटायुःसङ्गमः

15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

16. षोडशः सर्गः – हेमन्तवर्णनम्

17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्

18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्

19. एकोनविंशः सर्गः – खरक्रोधः

20. विंशः सर्गः – चतुर्दशरक्षोवधः

21. एकविंशः सर्गः – खरसन्धुक्षणम्

22. द्वाविंशः सर्गः – खरसंनाहः

23. त्रयोविंशः सर्गः – उत्पातदर्शनम्

24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः

25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः

26. षड्विंशः सर्गः – दूषणादिवधः

27. सप्तविंशः सर्गः – त्रिशिरोवधः

28. अष्टाविंशः सर्गः – खररामसम्प्रहारः

29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्

30. त्रिंशः सर्गः – खरसंहारः

31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः

32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः

33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा

34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः

35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्

36. षट्त्रिंशः सर्गः – सहायैषणा

37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्

38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा

39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः

41. एकचत्वारिंशः सर्गः – रावणनिन्दा

42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्

43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्

44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना

45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्

46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः

47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः

48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्

49. एकोनपञ्चाशः सर्गः – सीतापहरणम्

50. पञ्चाशः सर्गः – जटायुरभियोगः

51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्

52. द्विपञ्चाशः सर्गः – सीताविक्रोशः

53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्

54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्

55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः

56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्

57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्

59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्

60. षष्टितमः सर्गः – रामोन्मादः

61. एकषष्टितमः सर्गः – सीतान्वेषणम्

62. द्विषष्टितमः सर्गः – राघवविलापः

63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्

64. चतुःषष्टितमः सर्गः – रामक्रोधः

65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना

66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्

67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्

68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः

69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः

70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः

71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्

72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः

73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्

74. चतुःसप्ततितमः सर्गः – शबरीस्वर्गप्राप्तिः

75. पञ्चसप्ततितमः सर्गः – पम्पादर्शनम्