॥ रक्षोवधसमर्थनम् ॥
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ १ ॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥ २ ॥
किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।
क्षत्रियैर्धार्यते चापो नार्त शब्दो भवेदिति ॥ ३ ॥
मां सीते स्वयमागम्य शरण्याः शरणं गताः ।
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ॥ ४ ॥
वसन्तो धर्मनिरता वने मूलफलाशनाः ।
न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ ५ ॥
काले काले च निरता नियमैर्विविधैर्वने ।
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ ६ ॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ।
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ॥ ७ ॥
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ।
कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥ ८ ॥
प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला ।
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ॥ ९ ॥
किं करोमीति च मया व्याहृतं द्विजसन्निधौ ।
सर्वैरेतैः समागम्य वागियं समुदाहृता ॥ १० ॥
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।
अर्दिताः स्म दृढं राम भवान्नस्तत्र रक्षतु ॥ ११ ॥
होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ ।
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२ ॥
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ।
गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ १३ ॥
कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ।
चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ १४ ॥
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव ।
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ १५ ॥
तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः ।
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ १६ ॥
मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ।
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ १७ ॥
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ।
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥ १८ ॥
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १९ ॥
तदवश्यं मया कार्यमृषीणां परिपालनम् ।
अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥ २० ॥
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनघे ।
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ॥ २१ ॥
सदृशं चानुरूपं च कुलस्य तव चात्मनः ।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥ २२ ॥
इत्येवमुक्त्वा वचनं महात्मा
सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान्सह लक्ष्मणेन
जगाम रम्याणि तपोवनानि ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः सर्गः ॥ १० ॥
<< 9. नवमः सर्गः – सीताधर्मावेदनम् 11. एकादशः सर्गः – अगस्त्याश्रमः >>2. द्वितीयः सर्गः – विराधसंरोधः
3. तृतीयः सर्गः – विराधप्रहारः
4. चतुर्थः सर्गः – विराधनिखननम्
5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्
6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्
7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः
8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा
9. नवमः सर्गः – सीताधर्मावेदनम्
10. दशमः सर्गः – रक्षोवधसमर्थनम्
11. एकादशः सर्गः – अगस्त्याश्रमः
12. द्वादशः सर्गः – अगस्त्यदर्शनम्
13. त्रयोदशः सर्गः – पञ्चवटीगमनम्
14. चतुर्दशः सर्गः – जटायुःसङ्गमः
15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला
16. षोडशः सर्गः – हेमन्तवर्णनम्
17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्
18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्
19. एकोनविंशः सर्गः – खरक्रोधः
20. विंशः सर्गः – चतुर्दशरक्षोवधः
21. एकविंशः सर्गः – खरसन्धुक्षणम्
22. द्वाविंशः सर्गः – खरसंनाहः
23. त्रयोविंशः सर्गः – उत्पातदर्शनम्
24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः
25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः
26. षड्विंशः सर्गः – दूषणादिवधः
27. सप्तविंशः सर्गः – त्रिशिरोवधः
28. अष्टाविंशः सर्गः – खररामसम्प्रहारः
29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्
31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः
32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः
33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा
34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः
35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्
36. षट्त्रिंशः सर्गः – सहायैषणा
37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्
38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा
39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः
40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः
41. एकचत्वारिंशः सर्गः – रावणनिन्दा
42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्
43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्
44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना
45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्
46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः
47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः
48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्
49. एकोनपञ्चाशः सर्गः – सीतापहरणम्
50. पञ्चाशः सर्गः – जटायुरभियोगः
51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्
52. द्विपञ्चाशः सर्गः – सीताविक्रोशः
53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्
54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्
55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः
56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्
57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्
58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्
59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्
60. षष्टितमः सर्गः – रामोन्मादः
61. एकषष्टितमः सर्गः – सीतान्वेषणम्
62. द्विषष्टितमः सर्गः – राघवविलापः
63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्
64. चतुःषष्टितमः सर्गः – रामक्रोधः
65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना
66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्
67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्
68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः
69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः
70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः
71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्
72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः
73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्