वाल्मीकि रामायणे अरण्यकाण्ड - सप्तविंशः सर्गः – त्रिशिरोवधः

॥ त्रिशिरोवधः ॥

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥ १ ॥

मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् ।
पश्य रामं महाबाहुं सम्युगे विनिपातितम् ॥ २ ॥

प्रतिजानामि ते सत्यमायुधं चाहमालभे ।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ ३ ॥

अहं वाऽस्य रणे मृत्युरेष वा समरे मम ।
विनिवृत्य रणोत्साहान् मुहूर्तं प्राश्निको भव ॥ ४ ॥

प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि ।
मयि वा निहते रामं सम्युगायोपयास्यसि ॥ ५ ॥

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ।
गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ ६ ॥

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ७ ॥

शरधारासमूहान् स महामेघ इवोत्सृजम् ।
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ॥ ८ ॥

आगच्छन्त त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥ ९ ॥

स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ १० ॥

ततस्त्रिशिरसा बाणैर्ललाटे ताडितास्त्रिभिः ।
अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् ॥ ११ ॥

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ।
पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ॥ १२ ॥

ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् ।
एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ॥ १३ ॥

त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ।
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ॥ १४ ॥

न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ।
अष्टभिः सायकैः सूतं रथोपस्थान् न्यपातयत् ॥ १५ ॥

रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ।
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् ॥ १६ ॥

विभेद रामस्तं बाणैर्हृदये सोभवज्जडः ।
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ॥ १७ ॥

शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ।
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ॥ १८ ॥

न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः ।
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ॥ १९ ॥

द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ।
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

<< 26. षड्विंशः सर्गः – दूषणादिवधः 28. अष्टाविंशः सर्गः – खररामसम्प्रहारः >>

1. प्रथमः सर्गः – महर्षिसङ्घः

2. द्वितीयः सर्गः – विराधसंरोधः

3. तृतीयः सर्गः – विराधप्रहारः

4. चतुर्थः सर्गः – विराधनिखननम्

5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्

6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः

8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा

9. नवमः सर्गः – सीताधर्मावेदनम्

10. दशमः सर्गः – रक्षोवधसमर्थनम्

11. एकादशः सर्गः – अगस्त्याश्रमः

12. द्वादशः सर्गः – अगस्त्यदर्शनम्

13. त्रयोदशः सर्गः – पञ्चवटीगमनम्

14. चतुर्दशः सर्गः – जटायुःसङ्गमः

15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

16. षोडशः सर्गः – हेमन्तवर्णनम्

17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्

18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्

19. एकोनविंशः सर्गः – खरक्रोधः

20. विंशः सर्गः – चतुर्दशरक्षोवधः

21. एकविंशः सर्गः – खरसन्धुक्षणम्

22. द्वाविंशः सर्गः – खरसंनाहः

23. त्रयोविंशः सर्गः – उत्पातदर्शनम्

24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः

25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः

26. षड्विंशः सर्गः – दूषणादिवधः

27. सप्तविंशः सर्गः – त्रिशिरोवधः

28. अष्टाविंशः सर्गः – खररामसम्प्रहारः

29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्

30. त्रिंशः सर्गः – खरसंहारः

31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः

32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः

33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा

34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः

35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्

36. षट्त्रिंशः सर्गः – सहायैषणा

37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्

38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा

39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः

41. एकचत्वारिंशः सर्गः – रावणनिन्दा

42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्

43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्

44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना

45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्

46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः

47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः

48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्

49. एकोनपञ्चाशः सर्गः – सीतापहरणम्

50. पञ्चाशः सर्गः – जटायुरभियोगः

51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्

52. द्विपञ्चाशः सर्गः – सीताविक्रोशः

53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्

54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्

55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः

56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्

57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्

59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्

60. षष्टितमः सर्गः – रामोन्मादः

61. एकषष्टितमः सर्गः – सीतान्वेषणम्

62. द्विषष्टितमः सर्गः – राघवविलापः

63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्

64. चतुःषष्टितमः सर्गः – रामक्रोधः

65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना

66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्

67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्

68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः

69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः

70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः

71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्

72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः

73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्

74. चतुःसप्ततितमः सर्गः – शबरीस्वर्गप्राप्तिः

75. पञ्चसप्ततितमः सर्गः – पम्पादर्शनम्