॥ सौमित्रिसन्धुक्षणम् ॥
ततः शरं दाशरथिः सन्धायामित्रकर्शनः ।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १ ॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः ।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २ ॥
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ।
सौमित्रिं युद्धसम्युक्तं प्रत्युवाच विभीषणः ॥ ३ ॥
निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे ।
त्वर तेन महाबोहो भग्न एष न संशयः ॥ ४ ॥
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान् ।
मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ॥ ५ ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।
मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ॥ ६ ॥
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः ।
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥
सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः ।
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ।
निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ ९ ॥
युवां खलु महायुद्धे शक्राशनिसमैः शरैः ।
शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरःसरौ ॥ १० ॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।
गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥ ११ ॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।
अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२ ॥
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ १३ ॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।
क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥ १४ ॥
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा ।
अचिन्तयित्वा प्रहसन्नैतत्किञ्चिदिति ब्रुवन् ॥ १५ ॥
मुमोच स शरान्घोरान्सङ्गृह्य नरपुङ्गवः ।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ॥ १६ ॥
नैवं रणगताः शूराः प्रहरन्ते निशाचर ।
लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ॥ १७ ॥
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ।
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ १८ ॥
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १९ ॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ।
इन्द्रजित्समरे वीरः प्ररूढ इव सानुमान् ॥ २० ॥
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः ।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ २१ ॥
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ २२ ॥
अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि ।
शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ २३ ॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ २४ ॥
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ।
तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ ॥ २५ ॥
स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ।
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम् ॥ २६ ॥
सासारयोरिवाकाशे नीलयोः कालमेघयोः ।
तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ॥ २७ ॥
न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ।
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः ॥ २८ ॥
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ।
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च ॥ २९ ॥
उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ।
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिःस्वनः ॥ ३० ॥
प्रकम्पयज्जनं घोरो निर्घात इव दारुणः ।
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः ॥ ३१ ॥
सुघोरयोर्निष्टनतोर्गगने मेघयोर्यथा ।
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ॥ ३२ ॥
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ।
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ॥ ३३ ॥
असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ।
अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे ॥ ३४ ॥
बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ।
स बभूव रणो घोरस्तयोर्बाणमयश्चयः ॥ ३५ ॥
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ।
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ॥ ३६ ॥
सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ।
चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः ॥ ३७ ॥
इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ।
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ॥ ३८ ॥
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ।
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ॥ ३९ ॥
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ।
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ॥ ४० ॥
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ।
तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ ४१ ॥
अथ समरपरिश्रमं निहन्तुं
समरमुखेष्वजितस्य लक्ष्मणस्य ।
प्रियहितमुपपादयन्महौजाः
समरमुपेत्य विभीषणोऽवतस्थे ॥ ४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
<< 88.अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम् 90.नवतितमः सर्गः – सौमित्रिरावणियुद्धम् >>1. प्रथमः सर्गः – हनूमत्प्रशंसनम्
2. द्वितीयः सर्गः – रामप्रोत्साहनम्
3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्
4. चतुर्धः सर्गः – रामाभिषेणनम्
5. पञ्चमः सर्गः – रामविप्रलम्भः
6. षष्ठः सर्गः – रावणमन्त्रणम्
8. अष्टमः सर्गः – प्रहस्तादिवचनम्
9. नवमः सर्गः – विभीषणसमालोचनम्
10. दशमः सर्गः – विभीषणपथ्योपदेशः
11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः
12. द्वादशः सर्गः – कुम्भकर्णमतिः
13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्
14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः
15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः
16. षोडशः सर्गः – विभीषणाक्रोशः
17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्
18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः
19. एकोनविंशः सर्गः – शरतल्पसंवेशः
20. विंशः सर्गः – सुग्रीवभेदनोपायः
21. एकविंशः सर्गः – समुद्रसङ्क्षोभः
22. द्वाविंशः सर्गः – सेतुबन्धः
23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्
24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा
25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं
26. षड्विंशः सर्गः – कपिबलावेक्षणम्
27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्
28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्
29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्
30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्
31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः
32. द्वात्रिंशः सर्गः – सीताविलापः
33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्
34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्
35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः
36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा
37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः
38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्
39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्
40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्
41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्
42. द्विचत्वारिंशः सर्गः – युद्धारम्भः
43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्
44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्
45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः
46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः
47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्
48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्
49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः
50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्
51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्
52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः
53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्
54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः
55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्
56. षट्पञ्चाशः सर्गः – अकम्पनवधः
57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्
58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः
59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्
60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः
61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्
62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना
63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक
64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः
65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्
66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्
67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः
68. अष्टषष्टितमः सर्गः – रावणानुशोकः
69. एकोनसप्ततितमः सर्गः – नरान्तकवधः
70. सप्ततितमः सर्गः – देवान्तकादिवधः
71. एकसप्ततितमः सर्गः – अतिकायवधः
72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः
73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्
74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्
75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः
76. षट्सप्ततितमः सर्गः – कम्पनादिवधः
77. सप्तसप्ततितमः सर्गः – निकुम्भवधः
78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्
79. एकोनाशीतितमः सर्गः – मकराक्षवधः
80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्
81. एकाशीतितमः सर्गः – मायासीतावधः
82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः
83. त्र्यशीतितमः सर्गः – रामाश्वासनम्
84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्
85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्
86. षडशीतितमः सर्गः – रावणिबलकदनम्
87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा
88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्
89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्
90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्
91. एकनवतितमः सर्गः – रावणिवधः
92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा
93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः
94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्
95. पञ्चनवतितमः सर्गः – राक्षसीविलापः
96. षण्णवतितमः सर्गः – रावणाभिषेणनम्
97. सप्तनवतितमः सर्गः – विरूपाक्षवधः
98. अष्टनवतितमः सर्गः – महोदरवधः
99. एकोनशततमः सर्गः – महापार्श्ववधः
100. शततमः सर्गः – रामरावणास्त्रपरम्परा
101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः
102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्
103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्
104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः
105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्
106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्
107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्
108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्
109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्
110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्
111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः
112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः
113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्
114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः
115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः
116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्
117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्
118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः
119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः
120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः
121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः
122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः
123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्
124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्
125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्
126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्
127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्
128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्
129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्