वाल्मीकि रामायणे युद्धकाण्ड - पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

॥ माल्यवदुपदेशः ॥

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।
उपयाति महाबाहू रामः परपुरञ्जयः ॥ १ ॥

तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ २ ॥

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।
सभां सन्नादयन्सर्वामित्युवाच महाबलः ॥ ३ ॥

जगत्सन्तापनः क्रूरो गर्हयन्राक्षसेश्वरः ।
तरणं सागरस्यापि विक्रमं बलसञ्चयम् ॥ ४ ॥

यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ।
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ॥ ५ ॥

तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ।
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ॥ ६ ॥

रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ॥ ७ ॥

स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ।
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह ॥ ८ ॥

स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ।
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ॥ ९ ॥

न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ।
तन्मह्यं रोचते सन्धिः सह रामेण रावण ॥ १० ॥

यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ॥ ११ ॥

विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ।
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः ॥ १२ ॥

सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ।
धर्मो हि श्रूयते पक्षो ह्यमराणां महात्मनाम् ॥ १३ ॥

अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण ।
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् ॥ १४ ॥

अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ।
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् ॥ १५ ॥

अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परेः ।
स प्रमादाद्विवृद्धस्तेऽधर्मोऽभिग्रसते हि नः ॥ १६ ॥

विवर्धयति पक्षं च सुराणां सुरभावनः ।
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया ॥ १७ ॥

ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ॥ १८ ॥

तपसा भावितात्मनो धर्मस्यानुग्रहे रताः ।
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ॥ १९ ॥

जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ।
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ॥ २० ॥

दिशोऽपि विद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे ।
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ॥ २१ ॥

आवृत्य रक्षसां तेजो धूमो व्याप्य दिशो दश । [आदत्ते]
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ॥ २२ ॥

चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ।
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥ २३ ॥

मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २४ ॥

उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा ।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ २५ ॥

खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः ।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ २६ ॥

रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ॥ २७ ॥

व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् ।
प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ २८ ॥

कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ २९ ॥

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ ३० ॥

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ।
किन्नरा राक्षसैश्चापि समीयुर्मानुषैः सह ॥ ३१ ॥

पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः ।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ३२ ॥

वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ॥ ३३ ॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ ३४ ॥

कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ।
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ३५ ॥

[* अधिकपाठः –
विष्णुं मन्यामहे देवं मानुषं देहमास्थितम् ।
न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥

येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ।
कुरुष्व नरराजेन सन्धिं रामेण रावण ॥
*]

ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥ ३६ ॥

इदं वचस्तत्र निगद्य माल्यवान्
परीक्ष्य रक्षोधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली
बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ३८ ॥

[* अधिकश्लोकं –
स तद्वचो माल्यवता प्रभाषितं
दशाननो न प्रतिशुश्रुवे तदा ।
भृशं जगर्हे च सुदुष्टमानसो
मुमूर्षुरत्युच्चवचांस्युदीरयन् ॥
*]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥

<< 34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम् 36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः