वाल्मीकि रामायणे युद्धकाण्ड - पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

॥ विभीषणाभिषेकः ॥

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥

रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ २ ॥

अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
[* पतिव्रतात्वं सीताया हनूमति पराक्रमम् । *]
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥ ३ ॥

राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ ४ ॥

राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥ ५ ॥

तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥ ६ ॥

परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥ ७ ॥

अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।
सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ॥ ८ ॥

विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ ९ ॥

एष मे परमः कामो यदीमं रावणानुजम् ।
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥ १० ॥

एवमुक्तस्तु सौमित्री राघवेण महात्मना ।
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ ११ ॥

तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।
आदिदेश महासत्त्वान्समुद्रसलिलानये ॥ १२ ॥

इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।
आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥ १३ ॥

ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ १४ ॥

लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ॥ १५ ॥

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ १६ ॥

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।
स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ॥ १७ ॥

प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ।
अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तदा ॥ १८ ॥

आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ।
स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ॥ १९ ॥

मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ।
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ॥ २० ॥

प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ।
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ॥ २१ ॥

अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ।
अनुमान्य महाराजमिमं सौम्य विभीषणम् ॥ २२ ॥

गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।
प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥ २३ ॥

वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।
आचक्ष्व वदतां‍श्रेष्ठ रावणं च मया हतम् ॥ २४ ॥ [जयतां]

प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥

<< 114.चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः 116.षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम् >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः