॥ नागबद्धरामलक्ष्मणप्रदर्शनम् ॥
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ १ ॥
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २ ॥
जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ।
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥ ३ ॥
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ ४ ॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।
आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥ ५ ॥
राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः ।
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ ६ ॥
हताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ ।
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ ७ ॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।
सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ ८ ॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।
मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ ९ ॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।
अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती ॥ १० ॥
निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।
तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ॥ ११ ॥
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ॥ १२ ॥
अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ॥ १३ ॥
सीतामारोपयामासुर्विमानं पुष्पकं तदा ।
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥ १४ ॥
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।
रावणोकारयल्लङ्कां पताकाध्वजमालिनीम् ॥ १५ ॥
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १६ ॥
विमानेनापि सीता तु गत्वा त्रिजटया सह ।
ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ॥ १७ ॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।
वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ १८ ॥
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।
लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ॥ १९ ॥
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ २० ॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ २१ ॥
शरतल्पगतौ वीरौ तथा भूतौ नरर्षभौ ।
दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ॥ २२ ॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।
प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ २३ ॥
सा बाष्पशोकाभिहता समीक्ष्य
तौ भ्रातरौ देवसमप्रभावौ ।
वितर्कयन्ती निधनं तयोः सा
दुःखान्विता वाक्यमिदं जगाद ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
<< 46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः 48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम् >>1. प्रथमः सर्गः – हनूमत्प्रशंसनम्
2. द्वितीयः सर्गः – रामप्रोत्साहनम्
3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्
4. चतुर्धः सर्गः – रामाभिषेणनम्
5. पञ्चमः सर्गः – रामविप्रलम्भः
6. षष्ठः सर्गः – रावणमन्त्रणम्
8. अष्टमः सर्गः – प्रहस्तादिवचनम्
9. नवमः सर्गः – विभीषणसमालोचनम्
10. दशमः सर्गः – विभीषणपथ्योपदेशः
11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः
12. द्वादशः सर्गः – कुम्भकर्णमतिः
13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्
14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः
15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः
16. षोडशः सर्गः – विभीषणाक्रोशः
17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्
18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः
19. एकोनविंशः सर्गः – शरतल्पसंवेशः
20. विंशः सर्गः – सुग्रीवभेदनोपायः
21. एकविंशः सर्गः – समुद्रसङ्क्षोभः
22. द्वाविंशः सर्गः – सेतुबन्धः
23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्
24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा
25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं
26. षड्विंशः सर्गः – कपिबलावेक्षणम्
27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्
28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्
29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्
30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्
31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः
32. द्वात्रिंशः सर्गः – सीताविलापः
33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्
34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्
35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः
36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा
37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः
38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्
39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्
40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्
41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्
42. द्विचत्वारिंशः सर्गः – युद्धारम्भः
43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्
44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्
45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः
46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः
47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्
48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्
49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः
50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्
51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्
52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः
53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्
54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः
55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्
56. षट्पञ्चाशः सर्गः – अकम्पनवधः
57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्
58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः
59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्
60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः
61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्
62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना
63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक
64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः
65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्
66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्
67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः
68. अष्टषष्टितमः सर्गः – रावणानुशोकः
69. एकोनसप्ततितमः सर्गः – नरान्तकवधः
70. सप्ततितमः सर्गः – देवान्तकादिवधः
71. एकसप्ततितमः सर्गः – अतिकायवधः
72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः
73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्
74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्
75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः
76. षट्सप्ततितमः सर्गः – कम्पनादिवधः
77. सप्तसप्ततितमः सर्गः – निकुम्भवधः
78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्
79. एकोनाशीतितमः सर्गः – मकराक्षवधः
80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्
81. एकाशीतितमः सर्गः – मायासीतावधः
82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः
83. त्र्यशीतितमः सर्गः – रामाश्वासनम्
84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्
85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्
86. षडशीतितमः सर्गः – रावणिबलकदनम्
87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा
88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्
89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्
90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्
91. एकनवतितमः सर्गः – रावणिवधः
92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा
93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः
94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्
95. पञ्चनवतितमः सर्गः – राक्षसीविलापः
96. षण्णवतितमः सर्गः – रावणाभिषेणनम्
97. सप्तनवतितमः सर्गः – विरूपाक्षवधः
98. अष्टनवतितमः सर्गः – महोदरवधः
99. एकोनशततमः सर्गः – महापार्श्ववधः
100. शततमः सर्गः – रामरावणास्त्रपरम्परा
101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः
102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्
103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्
104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः
105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्
106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्
107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्
108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्
109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्
110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्
111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः
112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः
113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्
114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः
115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः
116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्
117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्
118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः
119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः
120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः
121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः
122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः
123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्
124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्
125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्
126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्
127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्
128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्
129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्