वाल्मीकि रामायणे युद्धकाण्ड - द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

॥ लक्ष्मणसञ्जीवनम् ॥

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।
लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥ १ ॥

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।
विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ २ ॥

एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥

शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ४ ॥

अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ ५ ॥

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ॥ ६ ॥

अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ ७ ॥

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।
विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ॥ ८ ॥

राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।
दुःखेन महताऽऽविष्टो ध्यानशोकपरायणः ॥ ९ ॥

परं विषादमापन्नो विललापाकुलेन्द्रियः ।
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ॥ १० ॥

भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ॥ ११ ॥

यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ।
देशे देशे कलत्राणि देशे देशे च बान्धवाः ॥ १२ ॥

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।
इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ॥ १३ ॥

विवेष्टमानं करुणमुच्छ्वसन्तं पुनः पुनः ।
राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ॥ १४ ॥

न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥ १५ ॥

सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥ १६ ॥

एवं न विद्यते रूपं गतासूनां विशाम्पते ।
दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीदृशम् ॥ १७ ॥

नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।
मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः ॥ १८ ॥

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ १९ ॥

एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।
हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥ २० ॥

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।
पूर्वं ते कथितो योसौ वीर जाम्बवता शुभः ॥ २१ ॥

दक्षिणे शिखरे तस्य जातमोषधिमानय ।
विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ॥ २२ ॥

सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।
सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ॥ २३ ॥

सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।
इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ॥ २४ ॥

चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ।
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ॥ २५ ॥

इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ।
अस्मिन्हि शिखरे जातामोषधीं तां सुखावहाम् ॥ २६ ॥

प्रतर्केणावगच्छामि सुषेणोऽप्येवमब्रवीत् ।
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ॥ २७ ॥

कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ।
इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ॥ २८ ॥

आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ।
फुल्लनानातरुगणं समुत्पाट्य महाबलः ॥ २९ ॥

गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।
स नीलमिव जीमूतं तोयपूर्णं नभःस्थलात् ॥ ३० ॥

आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ।
समागम्य महावेगः संन्यस्य शिखरं गिरेः ॥ ३१ ॥

विश्रम्य किञ्चिद्धनुमान्सुषेणमिदमब्रवीत् ।
ओषधिं नावगच्छामि तामहं हरिपुङ्गव ॥ ३२ ॥

तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।
एवं कथयमानं तं प्रशस्य पवनात्मजम् ॥ ३३ ॥

सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ॥ ३४ ॥

दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ।
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ॥ ३५ ॥

लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ।
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ॥ ३६ ॥

विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।
तमुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ॥ ३७ ॥

साधुसाध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ॥ ३८ ॥

सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ।
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ॥ ३९ ॥

दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ।
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ॥ ४० ॥

को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ।
इत्येवं वदतस्तस्य राघवस्य महात्मनः ॥ ४१ ॥

खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ।
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ॥ ४२ ॥

लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ।
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ ॥ ४३ ॥

लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।
नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ॥ ४४ ॥

वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।
न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ॥ ४५ ॥

नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ४६ ॥

यदि वधमिच्छसि रावणस्य सङ्ख्ये
यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।
यदि तव राजवरात्मजाभिलाषः
कुरु च वचो मम शीघ्रमद्य वीर ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥

<< 101.एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः 103.त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम् >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः