वाल्मीकि रामायणे युद्धकाण्ड - एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

॥ अङ्गददूत्यम् ॥

अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।
सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ॥ १ ॥

असंमन्त्र्य मया सार्धं तदिदं साहसं कृतम् ।
एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ २ ॥

संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।
कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ ३ ॥

इदानीं मा कृथा वीर एवं‍विधमचिन्तितम् ।
त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मम ॥ ४ ॥

भरतेन महाबाहो लक्ष्मणेन यवीयसा ।
शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥ ५ ॥

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।
जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥ ६ ॥

हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् ।
अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ ७ ॥

भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ।
तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ॥ ८ ॥

तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।
मर्षयामि कथं वीर जानन्पौरुषमात्मनः ॥ ९ ॥

इत्येवंवादिनं वीरमभिनन्द्य स राघवः ।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥ १० ॥

परिगृह्योदकं शीतं वनानि फलवन्ति च ।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ ११ ॥

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ १२ ॥

वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ॥ १३ ॥

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ १४ ॥

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ १५ ॥

आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ १६ ॥

रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये ॥ १७ ॥

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ १८ ॥

दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ १९ ॥

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ २० ॥

क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् ।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ २१ ॥

इत्येवं संवदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः ।
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥ २२ ॥

अवतीर्य च धर्मात्मा तस्माच्छैलात्स राघवः ।
परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ २३ ॥

सन्नह्य तु स सुग्रीवः कपिराजबलं महत् ।
कालज्ञो राघवः काले सम्युगायाभ्यचोदयत् ॥ २४ ॥

ततः काले महाबाहुर्बलेन महता वृतः ।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ २५ ॥

तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः ।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥ २६ ॥

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् ।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ २७ ॥

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ २८ ॥

तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ २९ ॥

पताकमालिनीं रम्यामुद्यानवनशोभिताम् ।
चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ॥ ३० ॥

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।
यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ॥ ३१ ॥

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् ।
रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ ३२ ॥

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥ ३३ ॥

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ॥ ३४ ॥

रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ॥ ३५ ॥

लघूनां त्रासजननं पातालमिव दानवैः ।
विन्यस्तानि च योधानां बहूनि विविधानि च ॥ ३६ ॥

ददर्शायुधजालानि तत्रैव कवचानि च ।
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ॥ ३७ ॥

अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ।
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ॥ ३८ ॥

ऋषभेण गवाक्षेण गजेन गवयेन च ।
हनुमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ॥ ३९ ॥

प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ।
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ॥ ४० ॥

सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः ।
वानाराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ॥ ४१ ॥

निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ।
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ॥ ४२ ॥

द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ।
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ॥ ४३ ॥

अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ।
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ॥ ४४ ॥

गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ।
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ॥ ४५ ॥

सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ ४६ ॥

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।
सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः ॥ ४७ ॥

अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ।
अद्भुतश्च विचित्रश्च तेषामासीत्समागमः ॥ ४८ ॥

तत्र वानरसैन्यानां शलभानामिवोद्यमः ।
परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी ॥ ४९ ॥

लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।
शतं शतसहस्राणां पृथगृक्षवनौकसाम् ॥ ५० ॥

लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ॥ ५१ ॥

अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ।
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ॥ ५२ ॥

संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।
राक्षसा विस्मयं जग्मुः सहसाऽभिनिपीडिताः ॥ ५३ ॥

वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।
महान् शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः ॥ ५४ ॥

सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ।
तेन शब्देन महता सप्राकारा सतोरणा ॥ ५५ ॥

लङ्का प्रचलिता सर्वा सशैलवनकानना ।
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ॥ ५६ ॥

बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।
राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे ॥ ५७ ॥

सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ।
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ॥ ५८ ॥

विभीषणस्यानुमते राजधर्ममनुस्मरन् ।
अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥ ५९ ॥

गत्वा सौम्य दशग्रीवं ब्रुहि मद्वचनात्कपे ।
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥ ६० ॥

भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतन ।
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ॥ ६१ ॥

नागानामथ यक्षाणां राज्ञां च रजनीचर ।
यच्च पापं कृतं मोहादवलिप्तेन राक्षस ॥ ६२ ॥

नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः ॥ ६३ ॥

दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ।
पदवीं देवतानां च महर्षीणां च राक्षस ॥ ६४ ॥

राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ।
बलेन येन वै सीतां मायया राक्षसाधम ॥ ६५ ॥

मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ।
अराक्षसमिदं लोकं कर्ताऽस्मि निशितैः शरैः ॥ ६६ ॥

न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः ॥ ६७ ॥

लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ॥ ६८ ॥

शक्यं मूर्खसहायेन पापेनाविदितात्मना ।
युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ॥ ६९ ॥

मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।
यद्वा विशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः ॥ ७० ॥

मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ।
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ॥ ७१ ॥

सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ॥ ७२ ॥

जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ।
सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ॥ ७३ ॥

ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।
ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः ॥ ७४ ॥

दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ॥ ७५ ॥

सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ॥ ७६ ॥

वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ।
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ॥ ७७ ॥

निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव ।
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ॥ ७८ ॥

निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ ७९ ॥

शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ॥ ८० ॥

न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ॥ ८१ ॥

अमर्षवशमापन्नो निशाचरगणेश्वरः ।
ततः स रोषताम्राक्षः शशास सचिवांस्तदा ॥ ८२ ॥

गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ॥ ८३ ॥

जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ॥ ८४ ॥

बलं दर्शयितुं वीरो यातुधानगणे तदा ।
स तान्बाहुद्वये सक्तानादाय पतगानिव ॥ ८५ ॥

प्रासादं शैलसङ्काशमुत्पपाताङ्गदस्तदा ।
तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ॥ ८६ ॥

भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ॥ ८७ ॥

ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ॥ ८८ ॥

पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ॥ ८९ ॥

विनद्य सुमहानादमुत्पपात विहायसम् ।
व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापि वानरान् ॥ ९० ॥

स वानराणां मध्ये तु रामपार्श्वमुपागतः ।
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ॥ ९१ ॥

विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत् ।
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ॥ ९२ ॥

वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ॥ ९३ ॥

बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः ॥ ९४ ॥

पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ॥ ९५ ॥

लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ।
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथाऽपरे ॥ ९६ ॥

अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ॥ ९७ ॥

ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ।
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ॥ ९८ ॥

तस्मिन्महाभीषणके प्रवृत्ते
कोलाहले राक्षसराज्यधान्याम् ।
प्रगृह्य रक्षांसि महायुधानि
युगान्तवाता इव संविचेरुः ॥ ९९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

<< 40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम् 42. द्विचत्वारिंशः सर्गः – युद्धारम्भः >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः