वाल्मीकि रामायणे युद्धकाण्ड - चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

॥ मन्दोदरीविलापः ॥

तासां विलपमानानां तथा राक्षसयोषिताम् ।
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥ २ ॥

ननु नाम महाभाग तव वैश्रवणानुज ।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥ ३ ॥

ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ।
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥ ४ ॥

स त्वं मानुषमात्रेण रामेण युधि निर्जितः ।
न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥ ५ ॥

कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ।
अविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ६ ॥

मानुषाणामविषये चरतः कामरूपिणः ।
विनाशस्तव रामेण सम्युगे नोपपद्यते ॥ ७ ॥

न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे ।
सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ ८ ॥

यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः ।
खरस्तव हतो भ्राता तदैवासौ न मानुषः ॥ ९ ॥

यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ।
प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥ १० ॥

यदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे ।
तदैव हृदयेनाहं शङ्के रामममानुषम् ॥ ११ ॥

अथवा रामरूपेण कृतान्तः स्वयमागतः ।
मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ १२ ॥

अथवा वासवेन त्वं धर्षितोऽसि महाबल ।
वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि सम्युगे ॥ १३ ॥

व्यक्तमेष महायोगी परमात्मा सनातनः ।
अनादिमध्यनिधनो महतः परमो महान् ॥ १४ ॥

तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५ ॥

मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ।
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ १६ ॥

सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया ।
सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ १७ ॥

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ १८ ॥

क्रियतामविरोधश्च राघवेणेति यन्मया ।
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ १९ ॥

अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव ।
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ २० ॥

अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ।
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ २१ ॥

वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम् ।
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ २२ ॥

आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषण ।
अप्राप्य चैव तं कामं मैथिलीसङ्गमे कृतम् ॥ २३ ॥

पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ।
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ॥ २४ ॥

देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ।
अवश्यमेव लभते फलं पापस्य कर्मणः ॥ २५ ॥

घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ।
शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते ॥ २६ ॥

विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ।
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः ॥ २७ ॥

अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ।
न कुलेन न रूपेण न दाक्षिण्येन मैथिली ॥ २८ ॥

मयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ।
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः ॥ २९ ॥

तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ।
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ ३० ॥

मैथिली सह रामेण विशोका विहरिष्यति ।
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ ३१ ॥

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ।
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ ३२ ॥

विमानेनानुरूपेण या याम्यतुलया श्रिया ।
पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा ॥ ३३ ॥

भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ।
सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलाः श्रियः ॥ ३४ ॥

हा राजन्सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ।
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ ३५ ॥

किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ।
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु ॥ ३६ ॥

विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ।
तदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो ॥ ३७ ॥

रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः ।
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ ३८ ॥

हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी ।
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया ॥ ३९ ॥

पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ।
पुत्रो मे शक्तनिर्जेता इत्येवं गर्विता भृशम् ॥ ४० ॥

दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः ।
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्दृढा ॥ ४१ ॥

तेषामेवं‍प्रभावानां युष्माकं राक्षसर्षभ ।
कथं भयमसम्बुद्धं मानुषादिदमागतम् ॥ ४२ ॥

स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ।
केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ ४३ ॥

कान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु ।
भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ ४४ ॥

तदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम् ।
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते ॥ ४५ ॥

श्वाविधः शललैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् ।
स्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम् ॥ ४६ ॥

क्षितौ निपतितं राजन् श्यावं रुधिरसच्छवि ।
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः ॥ ४७ ॥

हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ।
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥ ४८ ॥

त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ।
जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ॥ ४९ ॥

दृप्तानां निगृहीतारमाविष्कृतपराक्रमम् ।
लोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ ५० ॥

ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ ।
स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ ५१ ॥

हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ।
निवातकवचानां च सङ्ग्रहीतारमीश्वरम् ॥ ५२ ॥

नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ।
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥ ५३ ॥

देवासुरनृकन्यानामाहर्तारं ततस्ततः ।
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ ५४ ॥

लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ।
अस्माकं कामभोगानां दातारं रथिनां वरम् ॥ ५५ ॥

एवं‍प्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ।
स्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ ५६ ॥

शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ।
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः ॥ ५७ ॥

यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि ।
तदास्म्यभिहिता तीव्रमद्य त्वस्मिन्निपातिता ॥ ५८ ॥

नाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया ।
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ॥ ५९ ॥

प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम् ।
नय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥ ६० ॥

कस्मात्त्वं मां विहायेह कृपणां गन्तुमिच्छसि ।
दीनां विलपितैर्मन्दां किं वा मां नाभिभाषसे ॥ ६१ ॥

दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम् ।
निर्गतां नगरद्वारात्पद्भ्यामेवागतां प्रभो ॥ ६२ ॥

पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान् ।
बहिर्निष्पतितान्सर्वान्कथं दृष्ट्वा न कुप्यसि ॥ ६३ ॥

अयं क्रीडासहायस्ते नाथ लालप्यते जनः ।
न चैनमाश्वासयसे किं वा न बहुमन्यसे ॥ ६४ ॥

यास्त्वया विधवा राजन्कृता नैकाः कुलस्त्रियः ।
पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः ॥ ६५ ॥

ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ।
त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ ६६ ॥

प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप ।
पतिव्रतानां नाकस्मात्पतन्त्यश्रूणि भूतले ॥ ६७ ॥

कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा ।
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ ६८ ॥

अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया ।
आनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥ ६९ ॥

कातर्यं च न ते युद्धे कदाचित्संस्मराम्यहम् ।
तत्तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम् ॥ ७० ॥

अतीतानागतार्थज्ञो वर्तमानविचक्षणः ।
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ ७१ ॥

सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ।
सोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥ ७२ ॥

कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ।
निर्वृत्तस्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान् ॥ ७३ ॥

त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ।
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ॥ ७४ ॥

स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ।
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ॥ ७५ ॥

आत्मानमनुशोचामि त्वद्वियोगेन दुःखिता ।
सुहृदां हितकामानां न श्रुतं वचनं त्वया ॥ ७६ ॥

भ्रातॄणां चापि कार्त्स्न्येन हितमुक्तं त्वयाऽनघ ।
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् ॥ ७७ ॥

विभीषणेनाभिहितं न कृतं हेतुमत्त्वया ।
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा ॥ ७८ ॥

न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ।
नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद ॥ ७९ ॥

स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः ।
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ ८० ॥

महावीर्यस्य दक्षस्य सम्युगेष्वपलायिनः ।
यातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ ८१ ॥

उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ ८२ ॥

येन सूदयसे शत्रून्समरे सूर्यवर्चसा ।
वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ॥ ८३ ॥

रणे शत्रुप्रहरणो हेमजालपरिष्कृतः ।
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ ८४ ॥

प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् ।
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ ८५ ॥

धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ।
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ ८६ ॥

इत्येवं विलपन्त्येव बाष्पव्याकुललोचना ।
स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥ ८७ ॥

कश्मलाभिहता सन्ना बभौ सा रावणोरसि ।
सन्ध्याऽनुरक्ते जलदे दीप्ता विद्युदिवासिते ॥ ८८ ॥

तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः ।
पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ ८९ ॥

न ते सुविदिता देवि लोकानां स्थितिरध्रुवा ।
दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ ९० ॥

इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ।
स्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ ९१ ॥

एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ।
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ९२ ॥

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ ९३ ॥

रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ।
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ॥ ९४ ॥

नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम् ।
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥ ९५ ॥

रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ।
नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि ॥ ९६ ॥

श्रुत्वा तस्यागुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः ।
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ॥ ९७ ॥

विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ।
तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् ॥ ९८ ॥

अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वरः ।
अधर्मानृतसम्युक्तः कामं त्वेष निशाचरः ॥ ९९ ॥

तेजस्वी बलवान् शूरो सम्युगेषु च नित्यशः ।
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥ १०० ॥

महात्मा बलसम्पन्नो रावणो लोकरावणः ।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥ १०१ ॥

क्रियतामस्य संस्कारो ममाप्येष यथा तव ।
त्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम् ॥ १०२ ॥

प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ।
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥ १०३ ॥

संस्कारेणानुरूपेण योजयामास रावणम् ।
चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् ॥ १०४ ॥

ब्राह्म्या संवेशयाञ्चक्रू राङ्कवास्तरणावृताम् ।
वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः ॥ १०५ ॥

प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ।
वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम् ॥ १०६ ॥

पृषदाज्येन सम्पूर्णं स्रुवं सर्वे प्रचिक्षिपुः ।
पादयोः शकटं प्रादुरन्तरूर्वोरुलूखलम् ॥ १०७ ॥

दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ।
दत्त्वा तु मुसलं चान्यद्यथास्थानं विचक्षणाः ॥ १०८ ॥

शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥ १०९ ॥

परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ।
गन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः ॥ ११० ॥

विभीषणसहायास्ते वस्त्रैश्च विविधैरपि ।
लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥ १११ ॥

ददौ च पावकं तस्य विधियुक्तं विभीषणः ।
स्नात्वा चैवार्द्रवस्त्रेण तिलान्दूर्वाभिमिश्रितान् ॥ ११२ ॥

उदकेन च संमिश्रान्प्रदाय विधिपूर्वकम् ।
प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ॥ ११३ ॥

ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ।
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥ ११४ ॥

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।
रामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत् ॥ ११५ ॥

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ।
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ ११६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥

<< 113.त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम् 115.पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः