वाल्मीकि रामायणे युद्धकाण्ड - द्वादशः सर्गः – कुम्भकर्णमतिः

॥ कुंभकर्णमतिः ॥

स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः ।
प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ १ ॥

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥ २ ॥

स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् ।
विनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे ॥ ३ ॥

ततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥

निहितं बहिरन्तश्च बलं बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते ॥ ५ ॥

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः ।
सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥

प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते ।
धर्मकामार्थकृच्छ्रेषु यूयमार्हथ वेदितुम् ॥ ७ ॥

सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ९ ॥

अहं तु खलु सर्वान्वः समर्थयितुमुद्यतः ।
कुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥ १० ॥

अयं हि सुप्तः षण्मासान्कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ ११ ॥

इयं च दण्डकारण्याद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरिताद्देशादानीता जनकात्मजा ॥ १२ ॥

सा मे न शय्यामारोढुमिच्छत्यलसगामिनी ।
त्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ १३ ॥

तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना ।
हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥ १४ ॥

सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥

हुताग्नेरर्चिसङ्काशामेनां सौरीमिव प्रभाम् ।
दृष्वा सीतां विशालाक्षीं कामस्य वशमेयिवान् ॥ १६ ॥

उन्नसं वदनं वल्गु विपुलं चारुलोचनम् ।
पश्यंस्तदाऽवशस्तस्याः कामस्य वशमेयिवान् ॥ १७ ॥

क्रोधहर्षसमानेन दुर्वर्णकरणेन च ।
शोकसन्तापनित्येन कामेन कलुषीकृतः ॥ १८ ॥

सा तु संवत्सरं कालं मामयाचत भामिनी ।
प्रतीक्षमाणा भर्तारं राममायतलोचना ॥ १९ ॥

तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ।
श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥ २० ॥

कथं सागरमक्षोभ्यं उत्तरन्ति वनौकसः । [तरिष्यन्ति]
बहुसत्त्वसमाकीर्णं तौ वा दशरथात्मजौ ॥ २१ ॥ [झषा]

अथवा कपिनैकेन कृतं नः कदनं महत् ।
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ॥ २२ ॥

मानुषान्मे भयं नास्ति तथापि तु विमृश्यताम् ।
तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् ॥ २३ ॥

ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ।
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ॥ २४ ॥

सीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् ।
अदेया च यथा सीता वध्यौ दशरथात्मजौ ॥ २५ ॥

भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतिश्चाभिधीयताम् ।
न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ॥ २६ ॥

सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ।
तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥

यदा तु रामस्य सलक्ष्मणस्य
प्रसह्य सीता खलु सा इहाहृता ।
सकृत्समीक्ष्यैव सुनिश्चितं तदा
भजेत चित्तं यमुनेव यामुनम् ॥ २८ ॥

सर्वमेतन्महाराज कृतमप्रतिमं तव ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ २९ ॥

न्यायेन राजकार्याणि यः करोति दशानन ।
न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ ३० ॥

अनुपायेन कर्माणि विपरीतानि यानि च ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३१ ॥

यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
पूर्वं चापरकार्याणि न स वेद नयानयौ ॥ ३२ ॥

चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् ।
क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३३ ॥

त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम् ।
दिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥ ३४ ॥

तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः ।
अहं समीकरिष्यामि हत्वा शत्रूं‍स्तवानघ ॥ ३५ ॥

[* अहमुत्सादयिष्यामि शत्रूंस्तव विशाम्पते । *]
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ।
तावहं योधयिष्यामि कुबेरवरुणावपि ॥ ३६ ॥

गिरिमात्रशरीरस्य महापरिघयोधिनः ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभियाद्वै पुरन्दरः ॥ ३७ ॥

पुनर्मां स द्वितीयेन शरेण निहनिष्यति ।
ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३८ ॥

वधेन वै दाशरथेः सुखावहं
जयं तवाहर्तुमहं यतिष्ये ।
हत्वा च रामं सह लक्ष्मणेन
खादामि सर्वान् हरियूथमुख्यान् ॥ ३९ ॥

रमस्व कामं पिब चाग्र्यवारुणीं
कुरुष्व कार्याणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयं
चिराय सीता वशगा भविष्यति ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥

<< 11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः 13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम् >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः