॥ हुताशनप्रवेशः ॥
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।
राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥ १ ॥
सा तदश्रुतपूर्वं हि जने महति मैथिली ।
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताऽभवत् ॥ २ ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ ४ ॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ५ ॥
न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि ।
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥ ६ ॥
पृथक् स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ७ ॥
यद्यहं गात्रसंस्पर्शं गताऽस्मि विवशा प्रभो ।
कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ८ ॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९ ॥
सह संवृद्धभावाच्च संसर्गेण च मानद ।
यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥ १० ॥
प्रेषितस्ते यदा वीरो हनुमानवलोककः ।
लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ॥ ११ ॥
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।
त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥ १२ ॥
न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ।
सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥ १३ ॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४ ॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ १५ ॥
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ १६ ॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।
अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७ ॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।
मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ १९ ॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।
अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥
स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१ ॥
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।
उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २२ ॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २३ ॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २४ ॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २५ ॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ २६ ॥
आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च ।
अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ॥ २७ ॥
यथान्येऽपि विजानन्ति तथा चारित्रसम्युताम् ।
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ॥ २८ ॥
विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ।
जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ॥ २९ ॥
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ।
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ॥ ३० ॥
पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ।
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ॥ ३१ ॥
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ।
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ॥ ३२ ॥
पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ।
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ॥ ३३ ॥
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ।
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥
<< 118.अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः 120.विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः >>1. प्रथमः सर्गः – हनूमत्प्रशंसनम्
2. द्वितीयः सर्गः – रामप्रोत्साहनम्
3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्
4. चतुर्धः सर्गः – रामाभिषेणनम्
5. पञ्चमः सर्गः – रामविप्रलम्भः
6. षष्ठः सर्गः – रावणमन्त्रणम्
8. अष्टमः सर्गः – प्रहस्तादिवचनम्
9. नवमः सर्गः – विभीषणसमालोचनम्
10. दशमः सर्गः – विभीषणपथ्योपदेशः
11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः
12. द्वादशः सर्गः – कुम्भकर्णमतिः
13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्
14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः
15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः
16. षोडशः सर्गः – विभीषणाक्रोशः
17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्
18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः
19. एकोनविंशः सर्गः – शरतल्पसंवेशः
20. विंशः सर्गः – सुग्रीवभेदनोपायः
21. एकविंशः सर्गः – समुद्रसङ्क्षोभः
22. द्वाविंशः सर्गः – सेतुबन्धः
23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्
24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा
25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं
26. षड्विंशः सर्गः – कपिबलावेक्षणम्
27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्
28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्
29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्
30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्
31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः
32. द्वात्रिंशः सर्गः – सीताविलापः
33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्
34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्
35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः
36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा
37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः
38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्
39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्
40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्
41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्
42. द्विचत्वारिंशः सर्गः – युद्धारम्भः
43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्
44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्
45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः
46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः
47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्
48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्
49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः
50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्
51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्
52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः
53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्
54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः
55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्
56. षट्पञ्चाशः सर्गः – अकम्पनवधः
57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्
58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः
59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्
60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः
61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्
62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना
63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक
64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः
65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्
66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्
67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः
68. अष्टषष्टितमः सर्गः – रावणानुशोकः
69. एकोनसप्ततितमः सर्गः – नरान्तकवधः
70. सप्ततितमः सर्गः – देवान्तकादिवधः
71. एकसप्ततितमः सर्गः – अतिकायवधः
72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः
73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्
74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्
75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः
76. षट्सप्ततितमः सर्गः – कम्पनादिवधः
77. सप्तसप्ततितमः सर्गः – निकुम्भवधः
78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्
79. एकोनाशीतितमः सर्गः – मकराक्षवधः
80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्
81. एकाशीतितमः सर्गः – मायासीतावधः
82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः
83. त्र्यशीतितमः सर्गः – रामाश्वासनम्
84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्
85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्
86. षडशीतितमः सर्गः – रावणिबलकदनम्
87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा
88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्
89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्
90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्
91. एकनवतितमः सर्गः – रावणिवधः
92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा
93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः
94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्
95. पञ्चनवतितमः सर्गः – राक्षसीविलापः
96. षण्णवतितमः सर्गः – रावणाभिषेणनम्
97. सप्तनवतितमः सर्गः – विरूपाक्षवधः
98. अष्टनवतितमः सर्गः – महोदरवधः
99. एकोनशततमः सर्गः – महापार्श्ववधः
100. शततमः सर्गः – रामरावणास्त्रपरम्परा
101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः
102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्
103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्
104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः
105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्
106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्
107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्
108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्
109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्
110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्
111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः
112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः
113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्
114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः
115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः
116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्
117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्
118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः
119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः
120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः
121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः
122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः
123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्
124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्
125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्
126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्
127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्
128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्
129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्