वाल्मीकि रामायणे किष्किन्धकाण्ड - नवमः सर्गः – वैरवृत्तान्तानुक्रमः

॥ वैरवृत्तान्तानुक्रमः ॥

श्रूयतां राम यद्वृत्तमादितः प्रभृति त्वया ।
यथा वैरं समुद्भूतं यथा चाहं निराकृतः ॥ १ ॥

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।
पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ २ ॥

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः ।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ ३ ॥

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥ ४ ॥

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ॥ ५ ॥

स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः ।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ ६ ॥

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ७ ॥

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ८ ॥

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।
ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ ९ ॥

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।
असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ॥ १० ॥

तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ ।
प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ ११ ॥

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ १२ ॥

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ।
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १३ ॥

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।
यावदत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ १४ ॥

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः ।
शापयित्वा च मां पद्भ्यां प्रविवेश बिलं महत् ॥ १५ ॥

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।
स्थितस्य च मम द्वारि स कालोऽप्यत्यवर्तत ॥ १६ ॥

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः ।
भ्रातरं तु न पश्यामि पापाशङ्कि च मे मनः ॥ १७ ॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् ।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ १८ ॥

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।
निरस्तस्य च सङ्ग्रामे क्रोशतो निःस्वनो गुरोः ॥ १९ ॥

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ २० ॥

शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ।
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ॥ २१ ॥

ततोऽहं तैः समागम्य सम्मतैरभिषेचितः ।
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ २२ ॥

आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ॥ २३ ॥

मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ।
निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ॥ २४ ॥

न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ।
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ॥ २५ ॥

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना ॥ २६ ॥

नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ।
कृताञ्जलिरुपागम्य स्थितोऽहं तस्य पार्श्वतः ।
अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥ ९ ॥

<< 8. अष्टमः सर्गः – वालिवधप्रतिज्ञा 10. दशमः सर्गः – राज्यनिर्वासकथनम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः