वाल्मीकि रामायणे किष्किन्धकाण्ड - सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

॥ कपिसेनाप्रत्यागमनम् ॥

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ १ ॥

सरांसि सरितः कक्षानाकाशं नगराणि च ।
नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ॥ २ ॥

सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः ।
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ॥ ३ ॥

विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥ ४ ॥

सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान् ।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ॥ ५ ॥

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।
कपिराजेन सङ्गम्य निराशाः कपियूथपाः ॥ ६ ॥

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥ ७ ॥

उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।
आगतः सह सैन्येन वीरः शतवलिस्तदा ॥ ८ ॥

सुषेणः पश्चिमामाशां विचित्य सह वानरैः ।
समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे ॥ ९ ॥

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १० ॥

विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥ ११ ॥

गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसन्तताः ॥ १२ ॥

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३ ॥

उदारसत्त्वाभिजनो महात्मा
स मैथीलीं द्रक्ष्यति वानरेन्द्रः ।
दिशं तु यामेव गता तु सीता
तामास्थितो वायुसुतो हनूमान् ॥ १४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

<< 46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम् 48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः