॥ कपिसेनासमानयनम् ॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १ ॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥
तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।
पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥
आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४ ॥
अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः ।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ५ ॥
वनशैलगुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६ ॥
तरुणादित्यवर्णाश्च पर्वते च महारुणे ।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ७ ॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।
तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥
तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभिः सर्वैराशु प्रेषय वानरान् ॥ ९ ॥
प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं हरीन् सम्प्रेषयापरान् ॥ १० ॥
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ ११ ॥
अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया ।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥
शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३ ॥
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ १५ ॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ १६ ॥
ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ १७ ॥
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ १८ ॥
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥
ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ २० ॥
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः ।
तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ २१ ॥
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥
अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्याद्वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ २४ ॥
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ २५ ॥
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः ।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥
ये तु त्वरयितुं याता वानराः सर्ववानरान् ।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ २७ ॥
तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ २८ ॥
अन्ननिष्यन्दजातानि मूलानि च फलानि च ।
अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥
तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम् ।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ ३० ॥
तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ ३१ ॥
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ३३ ॥
ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः ।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥
ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥
सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
<< 36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः 38. अष्टात्रिंशः सर्गः – रामसमीपगमनम् >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्